________________
१८४
संगीतरत्नाकर:
लघुमेरौ को पङ्क्तीः प्राग्वन्न्यस्येत्तदादिमः || ३४७ || एकैको एकाइयुक्तोऽधः पङ्क्तिकेषु तु । शेपकोष्टेष्वन्त्यतुर्य षष्ठयोगं निवेशयेत् ॥ ३४८ ॥ परासां शेष कोष्ठेषूपान्त्या स्तनसंयुतम् । त्रियोगमेवपादध्यादत्र च द्रुतमेरुवत् ॥ ३४९ ॥
स्थानां सर्वेषामङ्कानां संयोगात् संख्या परिज्ञायते गण्यते । प्रस्तारस्तु मूलग्रन्थ एव सुगमः ॥ - ३३८-३४६- ॥
इति द्रुतमेरुः
(क०) अथ लघुमेरुं लक्षयति - लघुमेरावित्यादि । प्राग्वत्; द्रुतमेराविव कोष्ठपङ्क्तीर्न्यस्येत् । तदादिमः ; तासां तिरश्चीनां पङ्क्तीनाम्, आदिमः ; एकैककोष्ठ एकाङ्कयुक्तः कर्तव्यः । अधः पङ्क्तिकेषु शेषकोष्ठेषु तु ; अन तुशब्दः परपङ्क्तिशेषकोष्ठेभ्यो वैलक्षण्यं द्योतयति । अन्त्यतुर्य षष्ठयोगं निवेशयेदिति । उपान्त्यं त्यक्त्वेत्यर्थः । अत्राद्यपङ्क्तेर्द्वितीयकोष्ठे प्रथमकोष्ठगतमन्त्यमेकाङ्कं लिखेत् । तृतीयकोष्ठेऽपि द्वितीयकोष्ठगतमन्त्य - मेकाङ्कमेव लिखेत् । चतुर्थकोष्ठे त्वत्र प्रतिनिधेः सदसत्त्वे च द्रुतमेरुवदिति वक्ष्यमाणत्वात्प्रतिनिधेः सद्भावादन्त्यमेकाङ्कं तुर्याभावे तृतीयमेकाङ्कं च योजयित्वा द्वयङ्कं लिखेत् । पञ्चम कोष्ठे ऽन्त्यतुर्ययोद्वर्य कायोर्योगं व्यङ्कं लिखेत् । षष्ठकोष्ठेऽप्यन्त्यतुर्ययोस्त्र्यङ्ककाङ्कयोः षष्ठाभावे पञ्चमस्यैकाङ्कस्य च योगं पञ्चाङ्कं लिखेत् । सप्तमे कोष्ठेऽप्यन्त्यतुर्यषष्ठानां पञ्चैकैकाङ्कानां योगं सप्ताङ्कं लिखेत् । परासां पङ्क्तीनां शेषकोष्ठेषु द्वितीयादिकोष्ठेषु, उपान्त्याधस्तनसंयुतमेवं त्रियोगमादध्यादिति । द्वितीयस्याः परपङ्क्तेः द्वितीय कोष्ठे ऽन्त्यमेकाङ्कमुपान्त्याभावेऽपि तदधः कोष्ठस्य सद्भावात तत्र स्थितमेकाङ्कं च योजयित्वा द्वयङ्कं लिखेत । तृतीयकोष्ठे द्वयङ्कमन्त्य
1
Scanned by Gitarth Ganga Research Institute