________________
पश्चमस्तालाध्यायः
१८३
चतुर्द्रता भेदा ज्ञायन्ते । अन्त्यकोष्ठस्थेनैकाङ्केन सर्वद्रुतो भेदो ज्ञायते । एवं सर्वत्र द्रष्टव्यम् । ज्ञेयान्तरमप्याह-ऊर्ध्वपङ्क्तिस्थेति ।।-३३८-३४६-।।
इति द्रुतमेरुः (सु०) द्रुतमेरुं निरूपयति-पक्तिं कृत्वेति । इष्टताल: यावत् द्रुतः तावत्संख्याकैः कोष्टकैः मितां तिरश्चों पङ्क्तिं कुर्यात् । तत: परामूर्खा पङ्क्तिं प्रथमेन कोप्टेन हीनां कुर्यात् । तत: परास्तु पङ्क्तयः प्रथमतः कोप्टद्वयहीना: कार्याः, स्वस्वपूर्वपङ्क्तितः सकाशात् । एवं स्थापयित्वा इयमङ्कयोजनेत्याहद्वौ द्वाविति । तासां सर्वासां पङ्क्तीनामाद्यकोष्टद्वये एकाङ्को देयः । अधस्तन्या: पङ्क्तेः तृतीयादौ विषमे कोष्टके तृतीयपञ्चमसप्तमादौ संख्याङ्कसंघवत् अन्त्योपान्त्यतुर्यकोष्ठायोर्योगं लिखेत् । अधस्तन्याः समकोष्ठकेषु चतुर्थषष्टादिषु तु अन्त्यं विना उपान्त्यतुर्यषष्ठानां योगं लिखेत् । एवमधस्तनपङ्क्तौ अङ्कान् विलिख्य, परासु ऊर्ध्वस्थासु पङ्क्तिषु प्रथमकोष्ठद्वये एकाङ्कस्य दत्तत्वात् शेषकोष्ठकेषु अयमेव योगः। अन्त्योपान्त्यतुर्यषष्ठा एवं ग्राह्याः । आसां, परपङ्क्तीनां संबन्धिनो: तुर्यषष्ठयोरङ्कयो: प्रतिनिधिर्नास्ति । समकोष्टे विशेषमाह-तास्विति । तासु परासु पङ्क्तिा, तिर्यक्पङ्क्तिविरचिनेन स्वभावतः पृथक्पङ्क्तयो विधेयाः । ऊर्ध्वाङ्कानां पङ्क्तयो निष्पन्नाः । तासां मध्ये समाया: पङ्क्तेः कोप्ठे अन्त्यस्थाने अन्त्यादधस्तनोऽको ग्राह्यः । ततश्च अन्त्यादधस्तनोपान्त्यतुर्यषष्ठानां योगो लेखनीय इत्यर्थः । एवं द्रुतमेरुविरचनप्रकारमङ्कनिवेशनप्रकारं चोक्त्वा तैरज्ञेयमाह-स्थितैरिति । विषमायां प्रथमतृतीयपञ्चमादावूर्ध्वपङ्क्तौ स्थितैरबैश्च अधःकमात् अधस्तनकोष्ठमारभ्य एकद्रुतत्रिद्रुतपञ्चद्रुताद्या मीयन्ते गण्यन्ते । प्रथमकोष्ठके योऽङ्कस्तावत्संख्याक एकद्रुताद्याः । द्वितीयकोष्ठके त्रिद्रुताः । तृतीयकोष्ठके पञ्चद्रुताः । अन्त्यकोष्ठके सर्वद्रुता इत्यादि। समपङ्क्तिषु पुनः स्थितः अझैः द्रुतहीनादयः द्वयादिसमसंख्या दुता: सर्वदूतान्ता भिदा ज्ञायन्ते । प्रथमकोष्ठके एकद्रुतहीनाः, द्वितीयकोष्टके द्विद्रुतहीनाः, तृतीयकोष्टके चतुर्दुतहीनाः ; चतुर्थकोष्टके षड्द्रुतादयः । अन्त्यकोष्ठके सर्वद्रुतहीनाः । प्रसङ्गेन संख्यापरिज्ञानमाह-ऊर्खेति । ऊर्ध्वपङ्क्ति
Scanned by Gitarth Ganga Research Institute