________________
१८२
संगीतरत्नाकरः एकद्रुताद्या विषमञ्यादिसंख्या द्रुता भिदाः । सर्वद्रुतान्ता मीयन्ते समपङ्क्तस्थितैः पुनः ।। ३४५ ॥ द्रुतहीनादयो द्वयादिसमसंख्या द्रुता भिदाः । सर्वद्रुतान्ता ज्ञायन्ते द्रुतमेरुरयं मतः ।। ३४६ ॥ ऊर्ध्वपङ्क्तिस्थसर्वाङ्कयोगात्संख्यापि गम्यते ।
इनि द्रुतमेरुः
इति द्रुतमेरुकोप्टकम् एकद्रुताद्या विषमत्र्यादिसंख्या द्रुताः सर्वद्रुतान्ता भिदा मीयन्त इति । अत्र आद्यस्थितेन द्वादशाङ्केन द्रुतप्लुतप्रस्तार एव दुता भेदा मीयन्ते । द्वितीयकोष्ठस्थेन चतुर्दशाङ्केन त्रिद्रुता भेदा मीयन्ते । तृतीयकोष्ठस्थेन षडकेन पञ्चद्रुता भेदा मीयन्ते । अन्त्यकोष्ठस्थेनैकाङ्केन सर्वद्रुता भेदा मीयन्ते । समपङ्क्तिस्थितैः पुनरिति । अत्र समायां पष्ठ्यामूर्ध्वपङ्क्तौ स्थितैरबैस्तु, द्रुतहीनादयो द्वयादिसमसंख्या द्रुता सर्वद्रुतान्ता भिदा ज्ञायन्त इति । षड्द्रुतात्मके प्लुतप्रस्तार द्रुतहीना भेदा अधःकोष्ठस्थेन चतुरङ्केण ज्ञायन्ते । द्वितीयकोष्ठस्थेन नवाकेन द्विद्रुता भेदा ज्ञायन्ते । तृतीयकोष्ठस्थेन पञ्चाङ्केन
Scanned by Gitarth Ganga Research Institute