SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १८१ तन्मध्ये तु समाकोप्टेऽन्त्यस्थानेऽन्त्यादधस्तनः ॥ ३४३ ॥ अङ्कः कार्योऽथ तैरबैर्भेदसंख्याभिधीयते । विषमायामूर्ध्वपक्तौ स्थितैरबैरवः क्रमात् ॥ ३४४ ॥ पङ्क्तिषु याः स्वभावतो निष्पन्नाः । ऊर्ध्वपङ्क्तय इति । प्रथमामधःपङ्क्तिं प्रकृति कृत्वा तदूर्ध्वपक्तिकल्पनायां कृतायां प्रथमपक्तिरेककोष्ठा, द्वितीया द्विकोष्ठा, तृतीयापि द्विकोष्ठिका, चतुर्थी त्रिकोष्ठिका, पञ्चम्यपि त्रिकोष्ठिका, षष्ठी चतुष्कोष्ठिका, सप्तम्यपि चतुष्कोष्ठिका, एवमुदाहृते द्रुतमेरावूर्ध्वपङ्क्तयः सप्त भवन्ति । तन्मध्य इति ; तासामूर्ध्वपङ्क्तीनां मध्ये । समाकोष्ठ इति । समायाः समसंख्यायाः पङ्क्तेः कोष्ठे अङ्कितव्ये, अन्त्यस्थाने ; पूर्वपङ्क्तिस्थस्य अन्त्याङ्कस्य स्थाने प्रसङ्गे सति, अन्त्यादधस्तनाङ्कः कार्य इति । प्रकृते द्रुतमेरौ तिसृषूर्ध्वपङ्क्तिषु अङ्काङ्कितासु सतीषु त्रिकोष्ठिकायां चतुर्थ्यामकितव्यं मध्यमकोष्ठे अन्त्यस्यैकाङ्कस्य अधस्तनद्वयङ्कमादाय उपान्त्यमेकाकं च योजयित्वा व्यकं लिखेत । ततो विषमायाः पञ्चम्यामधःकोष्ठे अन्त्योपान्त्ययोस्त्र्य कैकाङ्कयोर्योगं चतुरई लिखेत् । ततः समायाः षष्ठया द्वितीयकोष्ठे अन्त्यादधस्तनस्य पञ्चाङ्कस्य उपान्त्यतुर्ययोस्त्र्यकैकाङ्कयोश्च योगं नवाळे लिखेत् । ततो विषमायाः सप्तम्यां द्वितीयकोष्ठे अन्त्योपान्त्यतुर्याणां नवचतुरेकाङ्कानां योगं चतुर्दशाकं लिखेत । तस्या एव तृतीयकोष्ठे अन्त्यादधस्तनोपान्त्ययोश्चतुरकैकाङ्कयोोगं पञ्चाङ्क लिखेत् । तस्या एव तुरीयकोठे अन्त्योपान्त्ययोः पञ्चैकाङ्कयोर्योगं षडकं लिखेत् । अथ तैरबैज्ञेयमाह-भेदसंख्याभिधीयत इति । भेदानां प्रस्तारगतानां तालभेदानां संख्या इयत्ता । तदेव विषयव्यवस्थया विवृणोति-विषमायामित्यादिना । अत्र विषमायां; सप्तम्याम् ; ऊर्ध्वपङ्क्तौ अधःक्रमात् ; अधस्तादारभ्य ; Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy