________________
१८०
संगीतरत्नाकर:
द्वौ द्वौ तासामाद्यकोष्ठौ स्यातामेकाङ्कसंयुतौ । अस्तन्यस्तृतीयादौ विषमे कोष्ठके लिखेत् || ३४० ॥ अन्त्याद्यङ्कचतुष्कस्य योगं संख्याङ्कसंघत्रत् । समे त्वन्त्यं विनैतेषां योगं न्यस्याथ पङ्किषु ॥ ३४१ ॥ परासु शेषकोष्ठेषु चतुर्योगोऽयमिष्यते । नास्ति प्रतिनिधिस्त्वासामङ्कयोस्तुर्यषयोः ॥ ३४२ ॥ तासु स्वभावतो यास्तु निष्पन्ना ऊर्ध्वपङ्क्तयः ।
शेषः । तासां पङ्क्तीनां द्वौ द्वौ चाद्यकोष्ठावेकाङ्कसंयुतौ स्याताम् । अधस्तन्याः पङ्क्तेः तृतीयादौ विषमे कोष्टके संख्याङ्कसंघवत् अन्त्याङ्कचतुष्कस्य योगं लिखेदिति । तुर्यषष्ठयोरभावे तृतीयपञ्चमौ प्रतिनिधी कुर्यादित्यतिदेशार्थः । एवमधस्तन्यास्तृतीयकोष्ठे ऽन्त्योपान्त्ययोरङ्कयोर्योगं लिखेत् । समे त्विति । चतुर्थादौ समसंख्ये कोष्ठे तु, अन्त्यं विनैतेषाम् ; उपान्त्यतुर्यषष्ठानाम्, योगं न्यस्येति; अत्रान्त्याभाव एव विशेषः । एवमधस्तन्याः समचतुर्थकोष्ठे अन्त्यं द्वयङ्कं विना उपान्त्यस्यैकाङ्कस्य तुर्या - भावात् तृतीयस्यैकाङ्कस्य योगं द्वयङ्कं लिखेत । तम्या विषमे पञ्चमे कोष्ठे अन्त्योपान्त्ययोद्वर्यङ्कयोः तुर्यस्यैकाङ्कस्य च योगं पञ्चाङ्कं लिखेत् । तस्याः समे षष्ठे कोष्ठेऽन्त्यं पञ्चाङ्कं विना उपान्त्यतुर्ययोः द्वयकाङ्कयोः षष्ठाभावात् पञ्चमस्यैकाङ्कस्य च योगं चतुरङ्कं लिखेत् । तस्या वि सप्तमे कोष्ठे सोपान्त्यतुर्यषष्ठानां चतुष्पञ्चद्वयेकाङ्कानां योगं द्वादशाङ्कं लिखेत् ।
परास्त्वित्यादि । द्वितीयादिपरपङ्क्तिषु । शेष कोष्टेष्विति । ' तन्मध्ये तु समाकोष्ठे, इति वक्ष्यति । तदितरेषु विषमकोष्ठेव्वित्यर्थः । अयं चतुर्योग इष्यत इति; अन्त्यादीनां योग इत्यर्थः । आसां परपङ्क्तीनां संबन्धिनोः तुर्यषष्ठयोरङ्कयोः प्रतिनिधिस्तु नास्ति । तावित्यादि । तासु ; तिरश्रीषु
Scanned by Gitarth Ganga Research Institute