________________
पञ्चमस्तालाध्यायः सदसत्वे प्रतिनिधेः कोष्ठाकैरूलपङ्क्तिगैः ।
लघुहीनादुपक्रम्यैकायेकोत्तरद्धलाः ॥ ३५० ।। मुपान्त्याधस्तनमेकाक्षं च योजयित्वा त्र्यकं लिखेत् । चतुर्थकोष्ठे व्यकमन्त्यमुपान्त्याधस्तनमेकाकं च योजयित्वा चतुरङ्क लिखेत् । अत्र प्रतिनिधेरसत्वात्तुर्याभावे तृतीयो न गृह्यते । पञ्चमकोष्ठेऽन्त्योपान्त्याधस्तनतुर्याणां चतुद्वकाङ्कानां योगं सप्ताङ्क लिखेत् । षष्ठकोठेऽन्त्योपान्त्याधस्तनतुर्याणां सप्तत्रिद्वयङ्कानां योगं द्वादशाकं लिखेत् । ततस्तृतीयस्यां द्वितीयकोष्ठेऽन्त्योपान्त्याधस्तनयोरेकद्वयङ्कयोर्योग व्यकं लिखेत् । तृतीयकोष्ठेऽन्त्योपान्त्याधस्तनयोस्व्यङ्कयोर्योगं षडकं लिखेत् । चतुर्थे कोठेऽन्त्यं षडङ्कमुपान्त्याधस्तनं चतुरङ्कं च योजयित्वा दशाकं लिखेत् । ततश्चतुर्थी द्वितीयकोष्ठेऽन्त्यमेकाङ्कमुपान्त्याधस्तनं व्यकं च योजयित्वा चतुरकं लिखेत् । एवमुत्तरत्रापि यथेष्टं वर्धयेत् ॥ -३४७-३४९ ॥
(सु०) लघुमेरुं निरूपयति-लघुमेराविति । कोष्ठपङ्खीः प्राग्वत् ; द्रुतमेरुकोष्ठपङ्क्तिवत् न्यस्येत् स्थापयेत् । तासां पङ्क्तीनामेकैक: प्रथमकोष्ठः एकाङ्कयुक्तः कर्तव्यः । अध:पङ्क्तिकेषु तु शेषकोप्ठेषु अन्त्यतुर्यषष्ठानां योगं निवेशयेत् । अन्यासां पङ्क्तीनामुपान्त्यात् अधस्तनसंयुतं च त्रियोगं प्रति तुर्यषष्ठयोगमादध्यात् गृह्णीयात् । अन्त्योपान्त्याधस्तनतुर्यषष्ठयोर्योगमित्यर्थः । प्रतिनिधे: सत्त्वमसत्त्वं च द्रुतमेरुवत् । यथा द्रुतमेरौ अध:पङ्क्तौ च तुर्यषष्ठयोः प्रतिनिधिः, अन्यासु पङ्क्तिषु नास्ति, तथा लघुमेरावित्यर्थः ॥ -३४७-३४९ ॥
(क०) अत्र ज्ञेयमाह-कोष्टाङ्करित्यादि । ऊर्वपक्तिगैरिति । द्रुतमेरावुक्तप्रकारेण द्रष्टव्यम् । लघुहीनादुपक्रम्येति; अध:क्रमादित्येतदत्राप्यनुसंधेयम् । अध:पङ्क्तिकोष्ठाङ्केन द्रुतहीना भेदा ज्ञेयाः । एकाधे. कोत्तरद्धला इति। द्वितीयकोष्ठाकेनैकलघवो भेदाः ; तृतीयकोष्ठाकेन
Scanned by Gitarth Ganga Research Institute