________________
पश्चमस्तालाध्यायः
१७७
आदौ रूपमथैकैकमङ्कसंख्याङ्कसततेः ॥ ३३४ ॥ क्रमादधोऽधो विन्यस्येदन्त्यार्दीश्चतुरस्तथा । स्वपङ्क्तिस्थाल्लिखेदकानग्रसंख्याङ्कवद्युतान् ।। ३३५॥
(क०) अथ पातालं लक्षयति-आदौ रूपमित्यादि । संख्याङ्कसंततेः पूर्ववल्लिखितायाः अधोऽध: आदौ प्रथमकोष्ठ एकाङ्कस्याधः । रूपमिति । गणकप्रसिद्ध्या रूपमित्येकमुच्यते । अथवा आदौ रूपं संख्याङ्कसंततेरादौ स्थितं स्वरूपमेकाङ्कमित्यर्थः । तमादावधः पङ्क्तयादौ न्यस्य । अत्र आदावित्यावृत्त्या योजनीयम् । अथ ; अनन्तरम् , द्वयङ्कादीनामधोऽधः क्रमादेकैकमकं न्यसेदिति सामान्यवचनम् । अन्त्यादीनित्यादि विशेषवचनम् । स्वपङ्क्तिस्थानिति । अधस्थालेख्यपङ्क्तिस्थितान् , अन्त्यादीश्चतुरः, अन्त्योपान्त्यतुर्यषष्ठान् । तथेति; यथा संख्याङ्कपङ्क्तौ तद्वदित्यर्थः । अग्रसंख्याङ्कवद्युतानिति; तुर्यषष्ठयोः प्रतिनिधिर्न विद्यत इति चात्र विशेषः । अग्र उपरिपङ्क्तिस्थः संख्याङ्कोऽस्यास्तीत्यग्रसंख्याङ्कवान् अन्त्य एव गृह्यते । तम्यैव सर्वत्र संभवात् । अग्रसंख्याङ्कवता युतान् इत्यनेन यथासंभवं युतानामुपान्त्यादीनां केवलानामेव ग्रहणमिष्यते । अन्यथा अग्रसंख्याङ्कवत इत्येव ब्रूयात् । युतानन्त्यादीनित्यत्र उपान्त्यादय एव ग्राह्याः, नान्त्यः । तस्य स्वस्यैव स्वेन युतत्वाभावात् । अत्रायमङ्कलेखनप्रकारः--आदौ लिखितस्यैकाङ्कस्य अन्त्यस्यैव संभवात्तमग्रे संख्याङ्कनैकाङ्केन युतं कृत्वा द्वयत द्वयङ्कादधो लिखेत् । तेनान्त्येन द्वयकेनाग्रे स्थितद्विसंख्याङ्कवता युतमुपान्त्यमेकाकं मिलित्वा पञ्चाङ्कं व्यङ्कादधो लिखेत् । तेन पञ्चाङ्केनान्त्येनाग्रे स्थितसंख्याकवता युतमुपान्त्यं पञ्चाङ्क मिलित्वा दशाई षडङ्कादधो लिखेत् । ततस्तेनान्त्येन दशाङ्केनाग्रे षट्कसंख्याङ्कवता युतमुपान्त्यं पञ्चाङ्गं तुर्यमेकाक्षं च मिलित्वा द्वाविंशत्यक्षं दशाङ्कादधो लिखेत् । तेनान्त्येन द्वाविंशत्यङ्केनाने
Scanned by Gitarth Ganga Research Institute