________________
१७८
संगीतरत्नाकरः
किं तु प्रतिनिधित्र विद्यते तुर्यपष्ठयोः । इष्टतालद्भुतमितेष्वङ्केषु लिखितेष्विति ।। ३३६ ॥ क्रमादन्त्योपान्त्यतुर्यपष्ठैर्यत्र द्रुतादयः ।
मीयन्ते सर्वभेदस्थाः पातालः सोऽभिधीयते ।। ३३७ ॥
१
२
४ २० २२ ४४ ९३
इति पाताल:
दशसंख्याङ्कवता युतमुपान्त्यं दशाङ्कं तुर्ये द्वयङ्कं च मिलित्वा चतुश्चत्वारिंशङ्क मे कोनविंशत्यङ्कादधो लिखेत । तेनान्त्येन चतुश्चत्वारिंशदङ्केनाम एकोनविंशतिसंख्याङ्कवता युतमुपान्त्यं द्वाविंशत्यङ्कं तुर्ये पञ्चाङ्कं षष्ठमेकाङ्कं च मिलित्वैकनवत्यङ्कं त्रयस्त्रिंशदङ्कादधो लिखेत् । एवमुत्तरत्रापि इष्टतालद्रुतमितानङ्कान् लिखेत् । इतीष्टताल नमितेष्वङ्केषु लिखितेषु सत्सु यत्र ; अधः पङ्क्तौ, अन्त्योपान्त्यतुर्यपष्ठैः क्रमात् ज्ञेयमाह – सर्वभेदस्था द्रुतादयो मीयन्त इति । प्लुतप्रस्तारे तावदन्त्येन चतुश्चत्वारिंशदङ्कन सर्वभेदस्था द्रुता मीयन्ते । उपान्त्येन द्वाविंशत्यङ्केन सर्वभेदस्था लघवो मीयन्त इति । तुर्येण पञ्चमाङ्केन सर्वभेदस्था गुरवो मीयन्ते । पष्ठेनैकाङ्केन द्रुता मीयन्ते । एवं सर्वत्र द्रष्टव्यम् ॥ -३३४–३३७ ॥
इति पाताल:
(मु०) अथ पातालमाह – अदाविति । आदौ रूपम्, एकाङ्को लिखेत् । अथ ; अनन्तरं, संख्याङ्कसंततेः एकैकमङ्कं लिखेत् । क्रमाच्च संख्याङ्कं संततेरधोऽधः स्वपङक्तिः स्यात् । यथासंभवमन्त्यादीन् अन्त्योपान्त्यतुर्यषष्ठानङ्कान् समस्थानस्थितेन संख्याङ्केन सहितान् लिखेत् । किं त्विति । यथा संख्यासंततिरचने तुर्यषष्ठयोरभावे तृतीयपञ्चमयोः प्रतिनिधिरुक्तः । तथात्र नास्ति । एवं च इष्ट
Scanned by Gitarth Ganga Research Institute