________________
संगीतरत्नाकरः कृतार्थेन सहितात्तदसंभवे, ‘अकृतार्थेन पूर्वेण ' इति वदता ग्रन्थकारेणैव सूचितम् । तस्मात् प्रकृते व्यङ्कादपतितादपि द्रुतलाभो नास्त्येव । पतितादपि द्वयङ्कालघुलाभोऽपि नास्त्येव । द्वयोरपि प्लुतप्रापकाङ्कषट्कान्तर्भूतत्वेन निवृत्तत्वात , इति प्रकृतभेदस्थो लघुर्नष्टेऽप्येकाङ्केन लब्ध इत्युद्दिष्टेऽप्यनेन लघुनैकाङ्क एव पतितो लभ्यत इति सर्वमवदातम् ।। -३३०-३३३- ॥
इत्युद्दिष्टम् (सु०) उद्दिष्टं निरूपयति-ईदृग्रूप इति । अत्र ; प्रकृते तालप्रस्तारे, ईग्रूप इति ? भेदस्वरूपः कतिधा किं संख्यापूरण इति रूपमुद्दिश्य संख्याप्रश्नः कृतश्चेत् , ईदृशः प्रश्न उद्दिष्टमित्युच्यते । तत्र नष्टवत संख्याङ्कसंततिं लिखेत् । एवं लिखितेषु तेषु नष्टपरिज्ञाने यैः पतितैः उद्दिष्टस्थापिताः प्लुतादयो लभ्यन्ते, ते प्लुतादयस्तानेवाङ्कान् लभन्ते । प्लुतस्यान्येनापि प्रकारेणाङ्कलाभमाह-ये इति । द्वितीयापेक्षया ये प्लुतहेतवोऽङ्काः तेषां मध्ये अन्त्याङ्कात् सप्तमे पूर्वाङ्के तस्याभावे तु षष्ठाङ्के अन्त्याङ्कमध्यात पातिते सति यः शेषः स प्लुताल्लभ्यते । लब्धैरकैः किं कर्तव्यमित्यपेक्षायामाह-लब्ध हीनेति । लब्धैरकैः विहीनः योऽन्त्याङ्कस्य शेष:, तस्मात् पूरणसंख्याया: प्रथमद्वितीयादिसंख्यायाः ज्ञानमुद्दिष्टप्रश्नस्योत्तरम् । अत्र षड् द्रुतप्रस्तारे दृष्टान्तं दर्शयाम:-तत्र प्लुतरूपो भेदः किं संख्यापूरण इति प्रश्ने एकाङ्कषडङ्कद्वयङ्केषु पतितेषु नप्टेः प्लुतो लभ्यते । ततस्तेषां मेलनेन अष्टादश लब्धाः । द्वितीयपक्षे तु–अन्त्याङ्कात् एकोनविंशत्यङ्कात् सप्तमस्याङ्कस्य पूर्वस्याभावात् । षष्ठाङ्क अन्त्यमध्ये पातिते अष्टादश लब्धाः । अयं तु प्लुतपक्षः । एवं लब्धाङ्कहीने अन्त्येऽङ्के एको लब्धः, ततश्च प्लुतरूप: प्रथमो भेदः । एवं द्रुतो गुरूश्च द्रुतश्च कतिधा भेद इति प्रश्ने, घडङ्के व्यङ्के च पतिते नष्टे द्रुतद्वयमध्ये गुरुर्लभ्यते । ततश्च नव लब्धाः, नव हीने अन्त्याङ्के, एकोनविंशतौ दशावशिष्टाः । ततश्च दशमः, एवं सति प्लुतत्रये द्वितीयो भेद इति ज्ञेयम् ॥ -३३०-३३३- ॥
इत्युद्दिष्टम्
Scanned by Gitarth Ganga Research Institute