________________
पश्चमस्तालाध्यायः
१७५ इत्येतदुद्दिष्टोत्तरम् । तत्रैव प्रस्तारे लघुप्लुतात्मके भेदे उद्दिष्टे पूर्ववत् द्वयकोऽवशिष्टः । अत्रोद्दिष्टस्थितेनोपान्त्येन लघुना नष्टे तल्लघुलामहेतावेकाङ्के पातिते सति पुनरेकस्मिन्नवशिष्टे प्रथमोऽयं भेद इत्युत्तरम् । एवमुत्तरोत्तरेष्वप्यकेषु प्लुतयुक्तभेदो द्रष्टव्यः । प्लुतयुक्तभेदविषयत्वादेवास्योत्तरस्याव्यापकत्वम् ।
___ननु चानन्तरोदाहृतलघुप्लुतात्मके भेदे प्लुतस्यान्त्यत्वात् यद्वेति पक्षान्तराश्रयणेनान्त्यषष्टयङ्कमध्ये तदादिप्राचि सप्तमे द्वयङ्के पातिते सति शेषत्वेनाष्टपञ्चाशदङ्कः प्लुताल्लव्धः । अथ लघुना पातितोऽङ्को लभ्यः । तत्रान्त्यशेषद्वये गुरुहेतोस्तृतीयत्वेन पतितात् षडङ्कापूर्वस्य व्यङ्कस्यापतितत्वेन नष्टे द्रुतः कथं न लब्धः । अत्र द्वयकैकाङ्कयोरेकतरस्य पातसंभवात् लघुना को लभ्यत इति संदेहः । तत्रैकाके पातित एकस्यावशिष्टत्वात्प्रथमोऽयं भेद इत्युद्दिष्टोत्तरमिष्टं सिध्यति । द्वयङ्केषु पातितेपु शेषाभावात् तन्न सिध्यत्येव । अत्र कथं निर्णय इति चेत् ? उच्यते--प्रथमं तावत् नष्टो नष्टाङ्कभिन्नाङ्कशेषक्रमेण पूर्वाङ्केषु पातितेषु यावन्तः पातिताः तेभ्यस्तावन्तो द्रुता लभ्या एव । द्रुतस्य लाभानन्तरं वा आदित एव वा असहायपतितालधुः । सान्तरपतितात्पृशग्लघुः । निरन्तरपतिताद गुरुः । गुरुहेतोस्तृतीयात्पतितारप्लुतो लभ्यत इत्युक्तमेव ।
अत्रायं विशेषो विज्ञेयः-प्रथममपतितात् द्रुतो लभ्यत एव । पतितादनन्तरमपतितात्तु सर्वत्र द्रुतो न लभ्यते । किंतु दुतहेतुना अन्यथा वा यत्रोत्तरेणापतितेन सहितः पातितो लघुहेतुर्भवति, तत्र पतितानन्तरमपतितादपि पूर्वाकाद् द्रतो न लभ्यते । एवं पतितादनन्तरमपतितात्तु सर्वत्र प्लुतो न लभ्यते। यत्र त्वपतितेन पूर्वेण सहितः पतितो लघुहेतुर्भवति, तत्र तस्मादपतितादपि द्रुतोन लभ्यत एव । ततः पूर्वादपतितात्तु द्रुतो लभ्यत एव । तस्मात् यत्र लघुर्लभ्यते तत्राङ्कद्वयं निवर्तते, यत्र गुरुर्लभ्यते तत्राङ्कचतुष्टयं निवर्तते, यत्र प्लुतो लभ्यते तत्राङ्कषट्कं निवर्तत इति न्यायस्य व्यापकत्वमुत्तरेणा
Scanned by Gitarth Ganga Research Institute