________________
१७२
संगीतरत्नाकरः ईयूपोऽत्र कतिधा भेदः प्रश्न इतीदृशः ।। ३३० ॥ उद्दिष्टं तत्र संख्याङ्कसंततिं नष्टवाल्लिखेत् । येरकैः पतितैनष्टे लभ्यन्ते ये प्लुतादयः ॥ ३३१ ।। तानेवाङ्कालभन्ते ते भेदमुद्दिष्टमाश्रिताः । यद्वा षट्प्लुतहेत्वङ्कमध्ये ऽन्त्यात्याचि सप्तमे ॥ ३३२ ॥ तदभावे तु षष्ठाङ्के पातितेऽन्त्याङ्कमध्यतः । यः शेषः स प्लुताल्लभ्यो लब्धहीनान्त्यशेषतः ॥ ३३३ ॥ ज्ञानं पूरणसंख्याया उद्दिष्टोत्तरमिप्यते ।
इत्युद्दिष्टम् (क०) अथोद्दिष्टं लक्षयति-ईग्रुप इत्यादि । अत्र प्रकृते तालप्रस्तारे, ईदृग्रुप इति भेदस्वरूपमुद्दिश्य कतिधा भेद इति तस्य पूरणसंख्यां पृच्छति चेत् , ईदृशः प्रश्न उद्दिष्टमित्युच्यते । तत्र ; उद्दिष्टे । नष्टवत् संख्याङ्कसंतति लिखेदिति । अत्रापि सोदाहरणं वक्ष्यामः । प्लुतप्रस्तारे एकोनविंशत्यकानां संततिं लिखित्वा लघुद्वयेन द्रुतद्वयेन च युक्ते भेद उद्दिष्टे सति नष्टे यैः पतितैरकै: ये प्लुतादयो लभ्यन्ते, उद्दिष्टं भेदमाश्रिताः, ते प्लुतादयः तानङ्कानेव लभन्त इति । नष्टे अन्त्यावयवस्य पूर्ववल्लब्धत्वात् उद्दिष्टेऽप्यन्त्यावयवादि द्रष्टव्यम् । नष्टे हि द्रुतानामपतितादकाद्वा तालपूरणत्वेन वा लब्धत्वात् उद्दिष्टभेदस्थिताद् द्रुतात् न कोऽप्यको लभ्यते । अत्रान्त्योपान्त्यद्रुताभ्यामपतितावन्त्य द्वितीयौ दशाङ्कषडकौ विहाय तृतीयेन लघुना पतितस्त्र्यको लभ्यते । ततोऽपि चतुर्थावयवेन लघुना सान्तरपतित एकाङ्को लभ्यते । तेनात्र लभ्येनाङ्कद्वयेन चत्वारो लब्धाः । लब्धहीनान्त्यशेषत इति । एवं लब्धेन चतुर केण हीनोऽन्त्य एकोनविंशत्यङ्कः । तस्य शेषतः पञ्चदशाङ्के । पूरणसंख्याया इति । अयं भेदः पञ्चदश इति
Scanned by Gitarth Ganga Research Institute