________________
पश्चमस्तालाध्यायः
१७१
उत्तरेणाकृतार्थेन सहितात्पतितो लघुः, तदसंभवे उत्तरस्याकृतार्थत्वात्संभवे लघुत्पातनेनाकृतार्थत्वे सति अकृतार्थेन पूर्वेण सह पतितात् लधुः । निरन्तरे पतिते सति विशेषं कथयितुं सान्तरे पूर्वोक्तमनुवदति-सान्तर इति । सान्तरे ; एकाङ्कव्यवधाने अङ्कद्वये पतिते सति पृथक् लघुः लघुद्वयं कर्तव्यम् । निरन्तरे पतिताकद्वये लघुरेव पूर्वोक्तलघुना सह गुरुभवेत् । गुरुहेतोः पतितादात् तृतीये पतिते ; वक्ष्यति, 'गुरुरेव पतितापतिताभ्यां द्वाभ्यां सह प्लुतो भवति' इति । अङ्कानां संख्या: तालपूरणहेतवः यावत् द्रुतलाभस्तावत्संख्याकाः द्रुता ग्राह्या इति नष्टप्रश्नस्योत्तरं ज्ञेयम् । रूपनिर्णयात् ; संख्यायां पृष्टायां स्वरूपकथनादित्यर्थः।
___ अत्र षड्द्रुतप्रस्तारे दृष्टान्तं दर्शयाम:-तत्र षड्द्रुतप्रस्तारे प्रथमो भेदः कीगिति प्रश्ने; संख्यामा अन्त्योऽङ्क एकोनविंशतिः, तस्मादेकस्मिन् पतिते सति अवशिष्टेषु अष्टादशसु पूर्वे एकादशाङ्क: पातितः । तस्मिन् पातिते अवशिष्टेष्वष्टसु ततः पूर्वाङ्कः पातितः । ततोऽवशिष्टद्वये षडङ्कात् पूर्वस्य व्यङ्कस्य पातनात् ततः पूर्वो द्वयङ्कः पातितः । एवं पातस्थानेष्वभिज्ञानं कृत्वा 'निरन्तरे त्वस्मिन् लघुरेव गुरुभवेत्' इति न्यायेन प्राप्तिर्लभ्यते, चतुर्भिरन्तस्थितैरकैगुरुर्लभ्यते । गुरुहेतोः षडङ्कात् पतितात् तृतीयस्य द्वयङ्कस्य पातितत्वात् स एव गुरु: पतितापतिताभ्यां सह प्लुतो भवति । ततश्च प्रथमो भेद: प्लुतरूपः सिद्धयति । तस्मिन्नेव षड् द्रुतप्रस्तारे द्वितीयो भेद: कीगिति प्रश्ने ; एकोनविंशतिमध्ये द्वयङ्के पातिते सति सप्तदशावशिष्टाः । तेषु दश, षडङ्कश्च पातितः । 'निरन्तरे त्वस्मिन् लघुरेव गुरुभवेत् ' इति न्यायेन अन्त्यैश्चतुर्भिर्गुरुः । लघुस्तु पातितात् भवेत् । उत्तरेणाकृतार्थेन सहितादिति पूर्वाङ्कद्वयेन लघुः । ततश्च लघुर्गुरुश्च द्वितीयो भेदः । अत्रैव तृतीयो भेदः कीदृगिति प्रश्ने ; एकोनविंशतौ अङ्के पातिते अवशिष्टेषु षोडशसु दशषडकौ पातितौ, निरन्तरे त्वस्मिन्निति गुरुः । अपतित इति । पूर्व द्रुतद्वयं, ततश्च द्रुतद्वयं गुरुश्च तृतीयो भेदः । एवं चतुर्थे भेदे पृष्टे चतुन्यूनान्त्याङ्के पञ्चदशसु दशाङ्कः । अङ्को द्विकश्च पातितः । पूर्वाङ्कचतुष्टयेन गुरुः । उत्तराङ्कद्वयेन लघुरित्यादि ज्ञेयम् ॥ ३२४-३२९- ॥
इति नष्टम्
Scanned by Gitarth Ganga Research Institute