________________
संगीतरत्नाकरः प्लुती भवेत् । पूर्वमप्लुतः तदा प्लुतो भवति । स एवात्र प्रथमभेदत्वेन लेखनीयः । अङ्काभाव इति ; शेषाङ्कपातनीयाङ्कयोरेकतरस्याप्यभावे, द्रुता ग्राह्या इत्यत्र बहुवचनम विवक्षितं यथासंभवं द्रष्टव्यम् । किंच तत्रैव प्लुतप्रस्तारे सप्तमो भेदः कः? इति प्रश्न एकोनविंशतौ सप्तस्वपनीतेषु द्वादशावशिष्टा भवन्ति । तत्र पूर्वस्मिन् षडके पतिते सत्यकृतार्थस्योत्तरस्याभावेऽप्यकृतार्थेन पूर्वेण सहिताद्दशाङ्कात् लघुर्लब्धो भवति । अथ द्वादशाववशिष्टौ । तत्रापतितास्त्र्यङ्कात् द्रुतो लब्धो भवति । ततः पतिताद्वयङ्कादकृतार्थेन पूर्वेणैकाङ्केन सहिताल्लघुर्लब्धो भवति । ततोऽङ्काभावात तालपूरणहेतुर्दुतो ग्राह्यः । अत्रायं संप्रदायो ज्ञेयः--यत्र प्रथमो लघुः पतितादकादकृतार्थनोत्तरेण तदसंभवे पूर्वेण वा तादृशेन सहिताल्लब्धो भवति ; तत्र लध्वन्तरेऽपि स एव क्रमोऽनुसंधेय इति । एतत्सर्वं प्लुतप्रस्तारे दर्शितम् । एवं सर्वत्र प्रस्तारेषु द्रष्टव्यम् । इति नष्टस्य भेदस्वरूपनिर्णयात् नष्टप्रश्नस्योत्तरं विज्ञेयम् । इह नष्टस्वरूपनिरूपणोपायः प्रत्ययोऽप्युपचारान्नटमित्युक्तः । उत्तरपरत्वेन नपुंसको निर्देशः ॥ ३२४-३२९- ॥
इति नष्टम्
(सु०) नष्टं निरूपयति - अथेति । एतावतिथः ; एतावत्संख्याकः, पूर्णभेदेषु किं रूप: ? इति संख्यामुद्दिश्य भेदस्वरूपं यत्र पृच्छति, तन्नष्टमित्युच्यते । इह ; तस्य नष्टस्य उत्तरमुच्यते । यावतां भेदानां मध्ये षड्द्रुतानां सप्तद्रुतानामष्टादिद्रुतानां मध्ये नष्टस्य प्रश्नः कृतः, तावत्संख्याकमवधीकृत्य संख्याकानां श्रेणी पूर्वोक्तप्रकारेण लिखेत् । एवं कृत्वा नष्टं संख्याङ्कमन्त्याङ्कमध्ये पातयेत् न्यूनी कुर्यात् । अथ पातयित्वा शेषत: अवशिष्ट अन्त्याङ्के अन्त्याङ्कात् पूर्वपूर्वमेकं पातयेत् । यो योऽङ्कः पतति तत्राभिज्ञानं कुर्यात् । तत्र त्वपतितादड्कात् द्रुतो लभ्यत इत्युत्सर्गः । अपवादमाह-पूर्वश्चेति । पूर्वाको यदि पतितो न स्यात् , तदापतितात् द्रुतः । ततः किंभवेदित्यपेक्षायामाह-उत्तरेणेति।
Scanned by Gitarth Ganga Research Institute