________________
पञ्चमस्तालाध्यायः
१६९
अकृतार्थेन पूर्वेण सान्तरे पतिते पृथक् । लघुनिरन्तरे त्वस्मिल्लघुरेव गुरुर्भवेत् ॥ ३२८ ।। गुरुहेतोस्तृतीये तु पतिते गः प्लुती भवेत् । अङ्काभावे द्रुता ग्राह्यास्तालपूरणहेतवः ।। ३२९ ।। इति नष्टस्य विज्ञेयमुत्तरं रूपनिर्णयात् ।
इति नष्टम्
सान्तरे पतिते पृथग्लघुर्भवेदिति । अत्रावशिष्ट एकस्मिन्नेकाङ्कस्य सान्तरपतितत्वात अकृतार्थेन द्वयङ्केन सह पृथग्लघुर्लब्धो भवति । पृथगिति । पूर्वलब्धेन लघुना सह गुरुरूपतां हित्वेत्यर्थः । अत्र शेषाङ्कपातनीयाङ्कयोरभावेऽपि त्रिमात्रिकस्य तालस्य लघुद्वयेन द्रुतद्वयन च पूर्णत्वात् तालपूरणहेतवो द्रुता ग्राह्या न भवन्ति । अस्मिन्निरन्तरे तु लघुरेव गुरुर्भवेदिति । तत्रैव प्लुतप्रस्तारे दशमः किंरूप: ? इति नष्टप्रश्ने कृते सत्यन्तभूत एकोनविंशत्यके नष्टपूरके दशाङ्के अपनीते सति, शेषे नवाङ्के पूर्वस्य दशाङ्कस्यापातादपतितात् तस्माद् द्रुतो लब्धो भवति । अथ तत्पूर्वयोः षडङ्कव्यङ्कयोः निरन्तरयोः पातात् अस्मिन् लघुहेतावके निरन्तरे लघुहेतुना अङ्कान्तरेणाव्यवहिते सति, स लघुरेव लध्वन्तरेण मिलितो गुरुर्भवति । तमत्र लब्धस्य द्रुतस्यानन्तरं लेखकापेक्षया वामसंस्थं लिखेत् । अत्र पातनीयस्यैकाङ्कस्य सद्भावेऽपि शेषाङ्काभावात्तालपूरणहेतुर्द्रतोऽत्र ग्राह्यः । सोऽपि पूर्ववद्वामसंस्थो लेखनीयः । गुरुहेतोस्तृतीये तु पतिते गः प्लुती भवेदिति । अत्रैव प्लुतस्य प्रस्तारे प्रथमो भेदः किरूपः ? इति नष्टस्य प्रश्ने सति तत्रान्त्याङ्क एकोनविंशत्यङ्क एकाङ्केऽपनीते सत्यवशिष्टेऽष्टादशाङ्के पूर्ववत् पूर्वयोर्दशाङ्कषडङ्कयोनिरन्तरयोः पातात् गुरुर्लब्धो भवति । तत्रापि षडङ्को गुरुलाभहेतुर्भवति । तस्मात्तृतीयस्य व्यङ्कस्याप्यत्र पातात् तस्मिन् पतिते सति गो गुरुः
22
Scanned by Gitarth Ganga Research Institute