________________
पश्चमस्तालाध्यायः
१७३
पूरणसंख्या, तस्या ज्ञानमित्युद्दिष्टस्योत्तरमिप्यते । तथा द्रुतगुरुद्वत इत्युक्तं भेदमुद्दिश्यायं कतिधा इति संख्याप्रश्ने कृते तत्रान्त्येन द्रुतेनापतितमन्त्यं दशाकं विहायान्त्योपान्त्येन गुरुणा निरन्तरपतितौ द्वितीयतृतीयौ षडङ्कव्यको लभ्येते । ताभ्यां नव लब्धाः । तैहीनेऽन्त्य एकोनविंशत्यकेऽवशिष्टेपु दशस्वयं दशम इति पूरणसंख्याया ज्ञानमित्युद्दिष्टोत्तरम् । एवं सर्वत्र प्रस्तारेषु द्रष्टव्यम् । एतदेव व्यापकमुद्दिष्टोत्तरमवगन्तव्यम् ।
___क्वचिल्लाघवार्थमव्यापकमप्युत्तरं दर्शयति-यद्वेत्यादि। पट्प्लुतहेत्वङ्कमध्य इति । अत्र षट्शब्देन पूरणप्रत्ययान्तः षष्ठशब्दो लक्ष्यते । प्लुतहेत्वङ्केत्यनेन षष्ठादीनां दक्षिणसंस्थानां सर्वेषां प्लुतहेतुत्वसामर्थ्यात् आदिशब्दोऽध्याहियते, षष्ठादिप्लुतहेत्वङ्कमध्य इति । षष्ठ एकोनविंशत्यङ्कः, सप्तमस्त्रयस्त्रिंशदङ्कः, अष्टमः षष्ठाङ्कः, नवमः पडुत्तरशताङ्काः, एवं दशमादयोऽपि द्रष्टव्याः । एवमेकोनविंशत्यादयो दक्षिणसंस्थाः । षष्ठादयस्ते सर्वेऽपि प्लुतहेतवः, तेषां मध्ये यः कश्चन प्रकृततालवशादन्त्यत्वेन कल्पितः । तस्मात् प्राचि पुरातने वामस्थे सप्तमे, तदभावे तु षष्ठाङ्के अन्त्यापेक्षया षष्ठाङ्के, अन्त्याङ्कमध्यतः अन्त्याङ्कमध्ये पातिते सति, यः शेषः, अन्त्याङ्कशेषः ; सः प्लुताल्लभ्यत इति । अयमर्थः-अत्रोद्दिष्टभेदे प्लुतो दृश्यते । अन्त्ये वा, मध्ये वा, आदौ वा, तत्रैवं विज्ञेयम् । प्लुतप्रस्तारे तावत्प्रथमभेद एव प्लुतो नान्यस्मिन् भेदे । तस्मिन्नेवोद्दिष्टे तत्रान्त्यस्य प्लुतहेतोरेकोनविंशत्यङ्कस्य मध्ये तदपेक्षया सप्तमस्य प्राचोऽङ्कस्याप्यभावात् षष्ठ एकाङ्के पातिते सत्यष्टादशावशिष्टाः, ते प्लुताल्लभ्या भवन्ति । तैहीनोऽन्त्यशेष एकः ; तस्मिन् पूरणसंख्याया ज्ञानमयं प्रथमो भेद इत्येतदुद्दिष्टोत्तरम् । लब्धहीनान्त्यशेषत इत्यादिपक्षद्वयस्य साधारणमित्यवगन्तव्यम् ।
यथा द्रुतवर्धितप्लुतप्रस्तारे द्रुतात्मके भेद उद्दिष्टे तत्र प्लुतहेतुषु मध्येऽन्त्यस्य त्रयस्त्रिंशदङ्कस्य मध्ये । ततः प्राचि सप्तम एकाङ्के पातिते सति द्वात्रिं
Scanned by Gitarth Ganga Research Institute