________________
१६६
संगीतरत्नाकर:
द्रुतो लघुः सार्धमात्रो गुरुः सार्धद्विमात्रिकः । प्लुतः सार्धत्रिमात्रश्चेत्येकैक द्रुतवर्धितैः ॥ ३२१ ।। तालभेदाः क्रमादः संख्यायन्ते स्थितैरिह | यदङ्कयोगादन्त्योऽङ्को लब्धस्तैरन्ततः क्रमात् ।। ३२२ ॥ भेदा द्रुतान्तलघ्वन्तगुर्वन्ताश्च प्लुतान्तकाः । संख्यायन्त इति प्रोक्ताः संख्या निःशङ्कमूरिणा ॥ ३२३ ॥
२ ३ ६ १० १९ ३३
इति संख्या
(क०) एवमेवार्थे विवृण्वन् संख्यया ज्ञेयमाह - द्रुतो लघुरित्यादिना । इह ; अङ्कश्रेण्यां स्थितैरेकेन द्रुतेनैकाङ्कः, लघुना द्व्यङ्कः, सार्धमात्रेण त्र्यङ्कः । अत्र मात्राशब्देन लघुरुच्यते ; अर्धशब्देन द्रुतः ; गुरुणा षडङ्कः ; सार्धद्विमात्रिकेण दशाङ्कः ; प्लुतेनैकेन विंशत्यङ्कः; सार्धत्रिमात्रिकेण त्रयस्त्रिंशदङ्क इत्यैकैकद्रुतवर्धितैरङ्गैरेकादिभिः क्रमात् तालभेदाः प्रस्तारप्रकाशिताः तालभेदाः संख्यायन्ते । ज्ञेयान्तरमप्याह - यदङ्कयोगादित्यादि । यदङ्कयोगात् ; येषामङ्कानामन्त्य द्वितीयतुर्यषष्ठानां यथासंभवं स्थितानां तुर्यषष्ठयोरभावे तत्प्रतिनिध्योस्तृतीयपञ्चमयोर्वा योगात् अन्त्याको लव्धः, तैः; अन्त्याङ्कलाभहेतुभिः अन्त्यादिभिः । अन्ततः क्रमात् द्रुतान्तलध्वन्तगुर्वन्ताश्च प्लुतान्तकाः भेदाः संख्यायन्त इति । अन्त्याकेन द्रुतान्ता भेदाः संख्यायन्ते द्वितीयाङ्केन लध्वन्ता भेदाः, तुर्येण तदभावे तत्प्रतिनिधिना तृतीयेन वा गुर्वन्ता भेदाः, षष्ठेन तदभावे तत्प्रतिनिधिना पञ्चमेन वा प्लुतान्ता भेदाः संख्यायन्त इति क्रमो द्रष्टव्यः । प्रतिनिधिस्थले बहुवचनमविवक्षितम् । तत्र बहूनामसंभवात् । उदाहरणार्थे प्लुतप्रस्तारे द्रुतान्तादयो भेदाः प्रदर्श्यन्ते । प्लुते प्रवृत्त एकोनविंशतिर्भेदा भवन्ति ।
१
Scanned by Gitarth Ganga Research Institute