________________
१६७
पञ्चमस्तालाध्यायः अत्रैतावतिथो भेदः किंरूप इति पृच्छति ।
यत्र तन्नष्टमाख्यातं तस्योत्तरमिहोच्यते ॥ ३२४ ।। एकोनविंशतिसंख्याकलापस्य बहवोऽङ्काः । अन्त्यो दशाङ्कः, तेन दश द्रुतान्ता भेदाः। द्वितीयः षडङ्कः, तेन लध्वन्ता षड्भेदाः । चतुर्थों द्वयङ्कः, तेन गुर्वन्तौ द्वौ भेदौ । षष्ठः प्रतिनिधित्वेन पञ्चमैकाङ्कः, तेन प्लुतान्त एको भेदः । एवमेतैरकैरेकोनविंशतिभेदाः संख्यायन्ते । एवं सर्वत्र द्रष्टव्यम् ॥ ३२१-३२३ ॥
इति संख्या (सु०) संख्यानिरूपणे प्रयोजनमाह-द्रुत इति । एकैकेन द्रुतेन वर्धितेन ताले अवस्थितैरकैः क्रमात् यथासंख्यातैरकानां संख्या ज्ञायते । तामेव ताले एकैकद्रुते स्थापनाप्रकारमाह- द्रुत इत्यादिना । एकद्रुतताले एको द्रुत एव स्थाप्यः, द्विद्रुते लघुः । त्रिद्रुते अर्धमात्रया द्रुतेन सहितः सार्धमात्रो लघुरित्यनुषङ्गः। चतुर्दुतेऽर्धमात्रया द्रुतेन सहितो द्विमात्रो गुरुः । षड्द्रुते प्लुतः । सप्तद्रुते मात्रया द्रुतेन सहितस्त्रिमात्रः । इतःपरमपि वर्धनं प्लुतं लिखित्वा द्रुतलघ्वादि योजनीयम् । अष्टद्रुते लघु: प्लुतश्च । नवद्रुते द्रुतो लघु: प्लुतश्च । दशद्रुते गुरुः प्लुतश्च । एकादशद्रुते द्रुतो गुरुः प्लुतश्च । द्वादशद्रुते प्लुतद्वयम् । त्रयोदशद्रुते द्रुतत्रयं गुरुः प्लुतश्चेत्यादि । एवंविधे ताले प्रस्तारेण जाता भेदा अत्र स्थितैरदैर्ज्ञातव्या इति संबन्धः । अवान्तरप्रयोजनं संख्यानिरूपणमाह-यदङ्केति । येषामतानां योगात् मेलनात् अन्त्यमङ्कः पूर्वोक्तप्रकारेण लभ्यते । तैरकैः अन्तत: अन्त्यादारभ्य क्रमात् द्रुतान्तादयो भेदाः संख्यायन्ते । अन्त्येन द्रुतान्ताः; द्वितीये लध्वन्ताः; चतुर्थेन गुर्वन्ताः; षष्ठेन प्लुतान्ताः, यथा सप्तद्रुतप्रस्तारे त्रयस्त्रिंशद्भेदाः । तेषु एकोनविंशतिर्दृतान्ताः ; दश लघ्वन्ताः ; त्रयो गुर्वन्ताः; एक: प्लुतान्त इति ॥ ३२१-३२३ ॥
इति संख्या (क०) अथ नष्टं लक्षयति- अत्रैतावतिथ इति। अत्रैतावद्धेदवत्यमुकताल एतावतिथो भेद इति' पूरणसंख्यामुद्दिश्य किंरूप इति भेदम्वरूपं यत्र
Scanned by Gitarth Ganga Research Institute