________________
पश्चमस्तालाध्यायः
लिखेद्दक्षिणसंस्थैत्रमङ्कश्रेणी विधीयते । सा चाङ्केरिष्टतालस्थद्रुतसंख्यैः समाप्यते || ३२० ||
१६५
तृतीयेनैकेन योजयित्वा त्र्यङ्कानन्तरं षडङ्कं लिखेत् । तमन्त्यभूतं पुरातनेषु द्वितीयेन त्र्यङ्केण तुर्येणैकाङ्केन च योजयित्वा षडङ्कादनन्तरं दशाङ्क लिखेत् । ततस्तमन्त्यं पुरातनेषु द्वितीयतुर्याभ्यां षडङ्कयङ्काभ्यां षष्ठाभावे तत्प्रतिनिधिना पञ्चमेनैकाङ्केन च योजयित्वा दशाङ्कानन्तरमेकोनविंशत्यङ्के लिखेत् । ततस्तमन्त्यं पुरातनैर्द्वितीयतुर्यषष्ठैर्दशाङ्कत्र्यङ्ककाङ्कर्योजयित्वा व्ययस्त्रिशदङ्कं लिखेत् । एवमङ्कश्रेणी दक्षिणसंस्था विधीयत इति । लिखितुरपेक्षयेति द्रष्टव्यम् । न तूर्ध्वाधो वामसंस्था वेत्यर्थः । सेति । सा च; अङ्कश्रेणी । इष्टतालस्थद्रुतसंख्यैरिति ; ज्ञातुरिष्टो यस्ताल:, तत्र स्थितानां द्रुतानां संख्या सा येषां तैरकैः । समाप्यत इति । अयमर्थः - प्रस्तारादिपरीक्षां कर्तुर्य इष्टस्ताल:, तस्मिन् सर्वद्रुते कृते सति यावन्तो द्रुता भवन्ति, तावन्त एव संख्याकान् लिखेदिति ॥ ३१८-३२० ॥
(सु० ) अथ संख्यां निरूपयति - एकद्वयङ्काविति । एकाङ्कं द्वयङ्कं च कमात् न्यस्य स्थापयित्वा, अन्त्यमङ्कं पुरातनैः पूर्वप्रदेशस्थितैः द्वितीयचतुर्थषष्ठाः सह युञ्जीत मेलयेत् ; चतुर्थषष्ठयोरङ्कयोरभावे तृतीयपञ्चमाभ्यां ; तुर्याभावे तृतीयेन सह ; षष्ठाभावे पञ्चमेनाङ्केन सहान्त्यमङ्कं युञ्जीतेति संबन्ध: । तं योगं यथासंभवमन्त्यद्वितीययोः, अन्त्यद्वितीयतुर्याणां, अन्त्यद्वितीयचतुर्थषष्ठानां क्रमात् अग्रतः लिखेत् । एवं दक्षिणतः दक्षिणप्रदेशे संस्था समातिर्यस्याः । एवंविधा अङ्कानां श्रेणी पङ्क्तिः क्रियते । सा कियदवधि कर्तव्ये - त्यपेक्षायामाह – सा चेति । इष्टतालस्थद्रुतसंख्यैः ; इष्टो यस्ताल:, षड्गुतः, सप्तद्रुतोऽष्टद्रुतो वा, तत्र स्थिताः यावन्तो द्रुताः तावत्संख्यैरङ्गैः समापनीयाः। षड् द्रुततालसंख्यायां जिज्ञासितायामेवमङ्का लेख्याः । सप्ताष्टद्भुततालेऽप्येवं ज्ञेयम् ॥ - ३१८-३२० ॥
Scanned by Gitarth Ganga Research Institute