________________
१६४
संगीतरत्नाकरः एकद्वयङ्कौ क्रमान्न्यस्य युञ्जीतान्त्यं पुरातनैः ॥ ३१८ ॥ द्वितीयतुर्यषष्ठाङ्करभावे तुर्यषष्ठयोः ।
तृतीयपञ्चमाङ्काभ्यां क्रमात्तं योगमग्रतः ॥ ३१९ ।। गुरुर्दुतश्च, ततश्च द्रुतो गुरुर्दुतश्चेति दशमो भेदः । ततो गुरोरधस्तात् लघुः, अनन्तरं द्रुतः, पूर्व लघुटुंतश्च, ततश्च द्रुतो लघुद्वयं द्रुतश्चेत्येकादशो भेदः । ततः प्रथमलघोरधस्तात् द्रुतः, तत उपरिगता: द्रुतलघुप्लुताः । एवं पूर्व द्रुतः; अनन्तरं द्रुतः, पूर्व लघुर्दुतश्चेति द्वादशो भेदः। तत: प्रथमलघोरधस्तात् द्रुतः, ततोपरिगताः द्रुतलघुद्रुताः । पूर्व द्रुतः, ततश्च द्रुतत्रयं लघुर्दुतश्च त्रयोदशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतपूर्व गुरुः, एवं गुरुर्दुतद्वयं चेति चतुर्दशो भेदः । ततो गुरोरधस्तात् लघुः, अनन्तरं द्रुतद्वयं पूर्व लघुः, एवं लघुद्वयं द्रुतद्वयं च पञ्चदशो भेदः । ततः प्रथमलघोरधस्तात् द्रुतः, ततो लघु तद्वयं च, पूर्व द्रुतः, ततश्च द्रुतद्वयं, लघु तद्वयं चेति षोडशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतद्वयं, पूर्व लघुद्रुतौ, ततश्च द्रुतो लघुः, द्रुतत्रयं चेति सप्तदशो भेदः । ततो लघोरधस्तात् द्रुतः, अनन्तरं द्रुतत्रयं, पूर्व लघुः, ततश्च लघुटुंतचतुष्टयं चेत्यष्टादशो भेदः । ततो लघुरधस्तात् द्रुतः, अनन्तरं द्रुतचतुष्टयं, पूर्व द्रुतः, एवं द्रुताः षट् , एवमेकोनविशतिभेदः । ततो लघ्वक्ष्वक्षराभावात्प्रस्तारो नास्ति ॥ ३१६, ३१७- ॥
इति प्रस्तारः (क०) संख्यां लक्षयति--एकद्वयङ्कावित्यादि। क्रमादिति । एकात प्रथमं न्यस्य तदनन्तरं द्वयकं तिर्यक्पङ्क्तिगतत्वेन दक्षिणसंस्थं न्यस्येदित्यर्थः । अन्त्यमकं पुरातनैर्वामस्थैरन्त्यापेक्षया द्वितीयतुर्यषष्ठाकैर्यथासंभवं योजयेत् । प्रथमं तावदन्त्यभूतं द्वयङ्कम् । अत्र पुरातनेषु द्वितीयस्यैव सद्भावात् तेनैकाङ्केन सह योजयित्वा व्यङ्कं दक्षिणसंस्थं लिखेत् । ततस्तमन्त्यभूतं पुरातनेषु द्वितीयेन द्वयङ्केन, 'अभावे तुर्यषष्ठयोः', 'तृतीयपञ्चमाङ्काभ्यां क्रमाद् युञ्जीत' इति वचनादत्र तुर्याभावे तत्प्रतिनिधिना
Scanned by Gitarth Ganga Research Institute