________________
१६२
संगीतरत्नाकरः भूयोऽपीति ; द्वितीयादिपङ्क्तिस्थान् तालान् प्रकृतीकृत्य अधोऽधः सर्वद्रुततालभेदान्तं लिखेदित्यर्थः । प्रस्तारोऽयमित्यादि । सोऽयमुक्तलक्षणः प्रस्तारः । व्यस्ते केवले लघौ प्रस्तारे यथा-एक लघु लिखित्वा तदधस्ततोऽन्यद्भुतं न्यसेत् । उपरि तालावयवाभावात् शेषाभावः । प्रागूने तालपूर्यै महतोऽसंभवात अल्पं द्रुतं वामसंस्थं लिखेत् । एवं द्वितीयस्य भेदस्य सर्वद्रुतत्वात्ततः प्रस्तारो नोत्पद्यते । अतो लघुप्रस्तारे भेदद्वयमेव । व्यस्ते गुरौ प्रस्तारो यथा- एकं गुरुं लिखित्वा तदधस्तदपेक्षया अल्पं लघु न्यसेत् । अत्रापि पूर्ववच्छेषाभावः । प्रागूने तालपूत्यै लघोर्महतः संभवात्तं वामसंस्थं लिखेत् । एवं द्वितीयभेदे लघुद्वयमभूत् । तत आद्यात् लघोरधस्तादल्यं द्रुतं न्यसेत् । उपरि लघोः सद्भावात् तदधः शेषत्वेन लधु लिखेत् । प्रागूने तालपूत्यै द्रुतं लिखेत । एवं द्रुतद्वयं लघुश्च तृतीयो भेदः । ततश्च लघोरधो द्रुतं लिखेत । उपर्यभावाच्छेषाभावः । प्रागूने संभवात् द्रुतसंनिहितत्वेन लघु लिखेत । ततस्तालपूर्तयेऽर्धमात्रसंभवात् लघुसंनिहितत्वेन द्रुतं लिखेत । एवं द्रुतलघुद्रुतश्चतुर्थों भेदः । ततश्च लघोरधो द्रुतं लिखेत् । उपरि द्रुतस्य सद्भावाच्छेषत्वेन द्रुतं लिखेत् । प्रागूने संभवात लघु लिखेत् । एवं लघुतद्वयं पञ्चमो भेदः । ततश्च लघोरधो द्रुतं लिखेत । उपरि द्रुतद्वयस्य सद्भावाच्छेषत्वेन द्रुतद्वयं लिखेत् । प्रागूने त्वसंभवाद् द्रुतं लिखेत् । एवं द्रुतचतुष्टयं षष्ठो भेदः । तस्य सर्वद्रुतत्वात् ततः परं प्रस्ताराभाव एव । अतो गुरुप्रस्तारे षड्भेदाः । व्यस्तप्लुतप्रस्तारेऽप्युक्तरीत्या कृत एकोनविंशतिभेदा भवन्ति । व्यस्तेषु लघुपु लघ्वाद्यत्वम् , " आद्यन्तवदेकस्मिन् " (पा० १. १. २१) इति न्यायेन द्रष्टव्यम् । समस्ते चेति । सजातीयैर्विजातीयैर्वा सहिते च लघ्वादौ प्रस्तारोऽस्ति । व्यस्ते द्रुते तु नास्ति । ततोऽप्यल्पस्य तालावयवस्याभावादिति भावः ॥३१६,३१७-।।
इति प्रस्तार:
Scanned by Gitarth Ganga Research Institute