________________
पथ्वमस्तालाध्यायः
न्यस्याल्पमाद्यान्महतोऽधस्ताच्छेषं यथोपरि ।
प्रागूने वामसंस्थांस्तु संभवे महतो लिखेत् ।। ३१६ । अल्पानसंभवे तालपूयै भूयोऽप्ययं विधिः । सर्वद्रुतावधिः कार्यः प्रस्तारोऽयं लघौ गुरौ ।। ३१७ ॥ प्लुतौ व्यस्ते समस्ते च न तु व्यस्ते द्रुतेऽस्ति सः । इति प्रस्तारः
१६१
( क ० ) तत्र प्रस्तारं लक्षयति — न्यस्याल्पमित्यादि । स्वाभिमतं यं कंचन तालं प्रकृतत्वेन आदौ लिखित्वा तदवयवेषु, आद्यात् महतः ; अत्र महच्छब्देन लघुगुरुप्लुता उच्यन्ते । तेषु एकस्मात् आदिभूतात् महतोऽधस्तात् अल्पं न्यस्य, अत्र अल्पशब्देन द्रुतलघुगुरव उच्यन्ते । अयमर्थ:- - यत्र आद्यो लघुः महान् ततोऽधस्तदपेक्षया अल्पो द्रुतो लेखनीयः । यत्र तु आयो गुरुः महान् ततोऽधस्तदपेक्षया अल्पो लघुलेखनीयः । यत्र पुनराद्यः प्लुतो महान् ततोऽधस्तदपेक्षया अल्पो गुरुलेखनीयः । एवं नित्यमहान् प्लुतः, नित्याल्पो द्रुतः; लघुगुर्वोस्त्वपेक्षया महत्वमल्पत्वं च द्रष्टव्यम् । शेषं यथोपरीति । लिखेदिति शेषः । यस्त्वनेकावयवस्तालः, तस्य आद्यात् महतोऽवयवात् अधस्तात् अल्पं न्यस्य शेषं दक्षिणभागस्थितत्वेन लेखनीयम् । यथोपरिपङ्क्तौ तथैवाधो लिखेदित्यर्थः । यस्त्वनेकावयवस्तालः, यश्चैकमहान् अन्त्यावयवः तत्रोपरितनस्य अवयवान्तरस्याभावादेवास्य लक्षणांशस्याव्यापार एव । प्रागून इति । प्रथमं न्यूने तालांशे तालपूर्त्यै प्रकृततालपरिपूर्तये संभवे सति । महत इति । प्लुतगुरुलघूनित्यर्थः । असंभवे अल्पान् द्रुतानित्यर्थः । वामसंस्थान; लेखकापेक्षया पूर्वलिखितावयवसंनिहितत्वेन वामभागस्थितान् लिखेदित्यर्थः । भूयोऽप्ययं विधिः सर्वद्रुतावधिः कार्य इत्यनेन वीप्सा गम्यते, भूयो
21
Scanned by Gitarth Ganga Research Institute