________________
संगीतरत्नाकरः अन्येऽपि सन्ति भूयांसस्तालास्ते लक्ष्यवर्त्मनि । प्रसिद्धिविधुरत्वेन शास्त्रेऽस्मिन्न प्रदर्शिताः ।। ३१२ ।। तद्भेदप्रत्ययार्थ तु लघूपाया भवन्त्यमी । प्रस्तारसंख्ये नष्टं चोद्दिष्टं पातालकस्ततः ।। ३१३ ।। द्रुतमेरुर्लयोर्मेरुशुरुमेरुः प्लुतस्य च । मेरुः संयोगमेरुश्च खण्डप्रस्तारकस्ततः ॥ ३१४ ।। प्राचां चतुर्णा मेरूणां नष्टोद्दिष्टे पृथक्पृथक् । एकोनविंशतिरिति प्रत्ययास्तान् ब्रुवेधुना ॥ ३१५ ।।
(क०) अन्येऽपीति । विंशत्यभ्यधिकात् शतादन्येऽपि भूयांसः तालाः सन्ति । तर्हि किमर्थं न प्रदर्श्यन्त इत्यत आह-प्रसिद्धिविधुरत्वेनेति । तद्भेदप्रत्ययार्थ विति । तेषां प्रसिद्धानामप्रसिद्धानां च तालानां भेदस्य परिज्ञानाय अमी वक्ष्यमाणाः प्रतारादयः । लघूपाया इति । ज्ञेयम्यातिमहत्त्वेऽपि तज्ज्ञानसाधनानामेतेषामल्पत्वेन ते वक्तुं सुलभा इत्यर्थः । प्रत्यया इति । तद्भेदप्रत्ययार्थ वित्युक्तत्वात् प्रत्ययहेतुत्वेन प्रस्तागदयोऽपि प्रत्यया इत्युपर्यन्ते । प्रतीयन्त एतैरर्थविशेषा इति वा प्रत्ययाः । क्रमेण तान् लक्षयितुमाह-तान ब्रुवेऽधुनेति ॥ ३१२-३१५ ॥
(मु०) अन्येऽपीति । अन्येऽपि बहवो देशीताला: सन्ति । ते लक्ष्यमार्गे अप्रसिद्धत्वाद्विशेषतो नोक्ताः । तेषां भेदपरिज्ञानार्थम् , अमी लघूपायाः; लाघयुक्ता उपाया:, क्लेशं विनैव ज्ञाने साधनमित्यर्थः । ते च लाघवभेदज्ञानोपाया एकोनविंशतिः । प्रस्तार:, संख्या, नष्टम् , उद्दिष्टम् , पाताल:, द्रुतमेरुः, लघुमेरु:, गुरुमेरुः, प्लुतमेरुः, संयोगमेरुः, खण्डप्रस्तारक: ; पूर्वोक्तानां चतुर्णा मेरूणां पृथक्पृथक् नष्टमुद्दिष्टं च ; द्रुतमेरुनष्टम् , द्रुतमेरूद्दिष्टम् , लघुमेरुनष्टम् , लघुमेरूद्दिष्टम् , गुरुमेरुनष्टम् , गुरुमेरूद्दिष्टम् , प्लुतमेरुनष्टम् , प्लुतमेरूद्दिष्टं च । एते एकोनविंशतिप्रत्यया इहोच्यन्ते । प्रतीयन्ते तालभेदा: यैरिति प्रत्ययाः ॥ ३१२-३१५ ॥
Scanned by Gitarth Ganga Research Institute