________________
पश्चमस्तालाध्यायः
१४१
तालस्यावृत्तिषु प्रमाणभेदो दृश्यते । कचिदेकस्यामप्यावृत्तौ लघ्वादिष्वंशेषु प्रमाणभेदो दृश्यते । एतत्सर्वे देशीत्वस्य भूषणमेव ; न दूषणमिति देशीताल रहस्यमाचार्याभिमतमवगन्तव्यम् ।
नन्वत्र देशीताललक्षणेषु ; “ द्रुतौ विरामान्तौ तृतीयः स्यात् " इति तृतीयतालादिषु केपुचिद्देशीतालेषु द्रुतशेषत्वेन विरामः श्रूयते । तथा " गजलीले विरामन्तमुक्तं लघुचतुष्टयम्” इति गजतालादिषु शेषत्वेन विरामः श्रूयते । तत्र विरामः किं रूप: ? इति चेत्; उच्यते – उभयत्रापि विरामो विच्छेदपर्याय: । क्रियानन्तरविश्रान्तिरूपत्वाद्भिन्नकालश्च । तथाहि द्रुतशेष विराम लक्ष्येषु द्रुतार्धकालो दृष्टः । लघुशेषस्तु तद्भुतकाल इति । एवं विरामस्य भिन्नकालत्वे गुरुप्लुतयोर्विरामान्तवचनमेव ज्ञापकम् । तथाहि-- यदि गुरुर्विरामान्त इत्युच्येत, ततो गुरोर्विरामोऽपि तदर्धत्वेन लघुः कालः स्यात् । ततश्च प्लुत एव प्रकारान्तरेणोक्तः स्यात् । तथा प्लुतस्यापि विरामः सार्धमात्रकालो भवेत् । तथाच प्लुतः सार्धचतुर्मात्रिको भवति । तथाच तादृशस्य तालावयवस्य क्वचिदप्यनुपलम्भादपसिद्धान्तता अपप्रयोगता च प्रसज्येत । तस्मात् गुरुप्लुतयोः सविरामत्ववचनमेव द्रुतलघुविरामयोर्वैरूप्यं ज्ञापयतीति सिद्धम् ।
अत्र केचिदिदानींतनाः भरतंमन्या विरामस्यापि तालावयवत्वमङ्गीकृत्य प्रस्तारादिषु तालप्रत्ययेषु तस्यापि समावेशं कृत्वा स्ववैदुष्यं प्रकाशयन्तोऽज्ञान् प्रतारयन्ति । तैः स्वकीयमेव शास्त्रापरिज्ञानं प्रकाशितमिति प्रकाशयता अभिनवभरताचार्येण सर्वज्ञेन चतुरेण कल्लिनाथविदुषा विरामस्य तालावयवत्वाभावे चतुरो हेतूनुपन्यस्य संग्रहः श्लोकः कृतः । यथा
" अक्रियात्वात्क्रियाभावरूपत्वात्पारतन्त्र्यतः । विरूपत्वाद्विरामो न प्रस्तारादिकमर्हति ॥ " इति ।
Scanned by Gitarth Ganga Research Institute