________________
१४०
संगीतरत्नाकर:
" झण्टुको द्वौ द्रुतौ लौ द्वौ " इति झण्टुकतालस्य लक्षणम् । “अड्डतालो दौ लघुद्वयम् ” इत्यड्डुतालस्य लक्षणम् । " द्रुतद्वन्द्वात् लघुद्वन्द्वात् वैकुन्दो मङ्गलो भवेत् " इति सालगसूडस्य निःसारुभेदस्य वैकुन्दस्य लक्षणम् । एतेषां त्रयाणां तालानां नामभेद एव, न स्वरूपभेदः । एवं दर्पणमदनमकरन्दानां निःसारुहंसलीलहंसानां, जयाशीलकमलानामुदीक्षणसौन्दर सगणप्रतिमण्ठानां, यथाच — ढेङ्कीवर्णमण्ठयोः, करुणामरयोस्त्रिभङ्गिरतिलीलयोः, क्रीडानन्दयोः, शङ्खप्रतितालयोः, मङ्गलाभरणप्रतिमण्ठयोः, कान्ताररतितालयोः, कलापविचारयोः, तृतीयान्तरक्रीडयोः वर्णभिन्नराजमृगाङ्कयोः, अभङ्गोत्सवतालयोः, विजय द्वितीययोर्मिथः स्वरूपभेदाभावात्पौनरुक्त्यं दोष इति चेत्;
""
अत्रोच्यते कल्लिनाथसुधियोचितमुत्तरम् । लक्ष्यानुसारतः पौनरुक्त्यं तालगतं प्रति ॥
99
इह पुनरुक्ततया परिगणितेषु कुडुक्कादितालेषु स्थितानां लध्वादीनां देशीगतत्वेनानियत प्रमाणत्वात्प्रमाणभेदेनापि स्वरूपभेदादर्थपौनरुक्त्याभावाददोष इति । तथाहि कुडुक्कतालस्तु गोपालनायकेन रागकदम्बै रेवगुप्तिवदप्रयुक्तः । तत्र स्थितो लघुः चतुर्लध्वक्षरोच्चारमितो दृश्यते । तदनुसारेण तत्र स्थितो द्रुतोऽपि द्विलध्वक्षरोच्चारमितो दृश्यते । अड्डुतायां तु पञ्चलघ्वक्षरोच्चारमितो लघुस्तदर्धमितो द्रुतश्च दृश्यते । निःसारुभेदे वैकुन्दे तु पड्लध्वक्षरोच्चारमितो लघुस्तदर्धमितो द्रुतश्च वर्तते । एवं सर्वत्र त्रयाणां पौनरुक्त्ये लध्वादीनां प्रमाणभेदो द्रष्टव्यः ।
तथा ढेङ्कयां पञ्चलध्वक्षरोच्चारमितो लघुस्तद्द्वैगुण्येन गुरुश्च दृश्यते । बल्लभमण्ठे तु चतुर्थलध्वक्षरोच्चारमितो लघुस्तद्द्वैगुण्येन गुरुश्च दृश्यते । एवं द्वयोः पौनरुक्त्येऽपि प्रकृतन्यूनाधिकप्रमाणभेदेषु लक्ष्यानुसारेण द्वाभ्यां लध्वादिप्रमाणाभ्यां तालस्वरूपभेदो द्रष्टव्यः । किंचित्क्वचिद्गीतादावेकस्यैव
Scanned by Gitarth Ganga Research Institute