SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३८ संगीतरत्नाकरः गुर्वाद्याश्चतुरश्रादेः खण्डयित्वा निवेशिताः ॥ २५४ ॥ यद्वा लम्यादिखण्डानामाधिक्यमिह दृश्यते । तेनैषां खण्डतालत्वमभाषन्त पुरातनाः ॥ २५५ ।। द्रुताद्याद्यक्षरैज्ञेयं सन्ति संज्ञान्तराण्यपि । अर्धमात्रं तथा व्योम व्यञ्जनं बिन्दुकं द्रुते ॥ २५६ ॥ लघुनि व्यापकं हस्वं मात्रिकं सरलं तथा। द्विमात्रं च कला वक्र दीर्घ गुरुणि कीर्तितम् ॥ २५७ ॥ प्लुते व्यकं त्रिमात्रं च दीप्तं सामोद्भवं तथा । द्रुते शंभुर्लघौ देवी गुरौ गौरीयुतः शिवः ॥ २५८ ।। प्लुते त्रयो विरिश्चाद्या देवता मुनिभिः स्मृताः । द्रुते बिन्दुर्विरामान्ते तूक्ता मात्रायुता लिपिः ॥ २५९ ॥ प्लुते मात्रायुतो वक्रो लिपो श्रीशाङ्गिणोदितः । तालानां लक्षणं वक्ष्ये तेषां मूरिमताश्रितम् ॥ २६० ॥ आदितालादयः शार्ङ्गदेवान्ता विंशत्युत्तरं शतं देशी ताला भवन्ति । एते खण्डताला इति कथ्यन्ते ॥ २३९-२५३- ॥ (क०) देशीतालानां खण्डतालत्वं सोपपत्तिकं दर्शयति-गुर्वाद्या इत्यादिना । द्रुताद्याद्यक्षरैज्ञेयमिति । द्रुतादि द्रुतलघुगुरुप्लुताः, आद्यक्षरैः म्वनामाक्षरैः । द्रुतस्य आद्यक्षरम् , 'द' इति ; लघोराद्यक्षरम् , 'ल' इति ; गुरोराद्यक्षरम् , 'ग' इति ; प्लुतम्याद्यक्षरम् , 'प' इति वक्ष्यमाणेषु लक्षणवाक्येषु स्थितैरेतैरक्षरैः दूतादि ज्ञेयं भवति । द्रुतादीनामर्धमात्रादि संज्ञान्तराण्यपि सन्ति । तान्यपि लक्षणवाक्येषु द्रष्टव्यानि । तत्र मगणादयोऽप्यष्टौ गणाः क्वचिन्मकाराद्यक्षरैज्ञेया भवन्ति ॥ -२५४-२६० ॥ (सु०) तत्र कारणमाह-गुर्वाद्या इति । चतुरश्रादेः ; चच्चत्पुटचाच Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy