________________
पञ्चमस्तालाध्यायः
T
मकरन्दः कीर्तितालः श्रीकीर्तिः प्रतितालकः । विजयो बिन्दुमाली च समनन्दनमण्ठिकाः || २४५ ।। arunicht at विषमो वर्णमण्ठिका अभिनन्दोऽनङ्गनान्दीमल्लकङ्कालकन्दुकाः ।। २४६ ॥ एकताली च कुमुदचतुस्ताली च डोम्बुली । अभङ्गो रायवङ्कोलो वसन्तो लघुशेखरः ॥ २४७ ॥ प्रतापशेखरो झम्पा गजझम्पश्चतुर्मुखः ।
मदनः प्रतिमण्ठश्च पार्वतीलोचनो रतिः ॥ २४८ ॥ लीलाकरणयत्याख्यौ ललितो गारुगिस्तथा । राजनारायणाख्यश्व लक्ष्मीशो ललितप्रियः || २४९ ।। श्रीनन्दनश्च जनको वर्धनो रागवर्धनः । पट्तालश्चान्तरक्रीडा हंसोत्सवविलोकिताः ॥ २५० ॥ गजो वर्णयतिः सिंहः करणः सारसस्तथा । चण्डतालश्चन्द्रकलालयस्कन्दोऽडतालिकाः || २५१ ॥ घत्ता द्वन्द्वमुकुन्दौ च कुविन्दश्च कलध्वनिः । गौरीसरस्वतीकण्ठाभरणो भग्नसंज्ञकः ।। २५२ ।। तालो राजमृगाङ्कश्च राजमार्तण्डसंज्ञकः । निःशङ्कः शार्ङ्गदेवश्चेत्येते सोढलमूनुना । २५३ ॥ देशीताला : समादिष्टाः विंशत्यभ्यधिकं शतम् ।
१३७
(क० ) निःशङ्केति । शार्ङ्गदेवश्चेति । शतादुपरि विंशस्य तालस्य स्वनामकरणेन देशीतालानामनन्तत्वं स्वेच्छाकृतनामयुक्तत्वं च दर्शितवान् ग्रन्थकारः । विंशत्यभ्यधिकं शतमितीयत्तापरिच्छेदस्तु प्रसिद्धिमाश्रित्य कृत इति मन्तव्यम् ।। २३९-२५३- ॥
18
Scanned by Gitarth Ganga Research Institute