________________
१३६
संगीतरत्नाकरः आदितालो द्वितीयश्च तृतीयोऽथ चतुर्थकः ॥ २३९ ॥ पञ्चमो निःशङ्कलीलो दर्पणः सिंहविक्रमः । रतिलील: सिंहलील: कन्दर्पो वीरविक्रमः ॥ २४० ॥ रङ्गः श्रीरङ्गचच्चय? प्रत्यङ्गो यतिलग्नकः । राजचूडामणी रङ्गयोतो रङ्गप्रदीपकः ॥ २४१ ॥ राजतालो वर्णतालः सिंहविक्रीडितो जयः । वनमाली हंसनादः सिंहनादः कुडुक्ककः ॥ २४२ ॥ तुरङ्गालीलः शरभलीलः स्यात्सिहनन्दनः । त्रिभरिङ्गाभरणो मण्ठकः कोकिलाप्रियः ।। २४३ ।। निःसारुको राजविद्याधरश्च जयमङ्गलः ।
मल्लिकामोदविजयानन्दौ क्रीडाजयश्रियौ ।। २४४ ॥ विशेषः, प्रमाणविशेषश्च ; तस्या भेदो विशेषान्तरं, तस्माद्धेतोस्तालभेदोऽप्यनेकधा भवति, विचित्रो भवति । तालवैचित्र्यमपि द्रुतादीनां संनिवेशभेदात् प्रमाणभेदाच्चेति मन्तव्यम् । तालानामित्यादि । तेषाम् ; देशीतालानामित्यर्थः । उद्देशम् ; नाममात्राभिधानम् ।। २३७, २३८- ॥
(सु०) देशीताल इति । देशीतालस्तु शोभामनतिक्रम्य क्रमेण कांस्यतालध्वननादिकस्वेच्छारचितया क्रियया ; वक्ष्यमाणलघ्वादिभि: मितया क्रियया संमित: ; मतः संमतः ; मुनीनामित्यर्थः । देशीतालोपयोगीनि तालानि लक्षयतिअर्धमात्रेति । मात्रालक्षणं पूर्वमुक्तम्'; "पञ्चलध्वक्षरोच्चारमितः" इति । तस्या अर्धं द्रुतः, मात्रात्रये प्लुत: ; लघुरेका मात्रा ; मात्राद्वयं गुरुरिति प्रसिद्धत्वान्नोक्तानीति । द्रुतादीति । द्रुतादीनां द्रुतलघुप्लुतानां रचनान्यूनाधिक्ये पौर्वापर्य वा तद्भेदात् तालभेदोऽप्यनेकप्रकार: । तेषामेव प्रतिज्ञा | उद्देशमाह-तालानामिति ॥ २३७, २३८-॥
(सु०) नामगणनपूर्वकं देशीतालानां संख्यामाह-आदिताल इति ।
Scanned by Gitarth Ganga Research Institute