________________
१३५
पश्चमस्तालाध्यायः अर्धमात्रं द्रुतो मात्रात्रितयं प्लुत उच्यते । द्रुतादिरचनाभेदात्तालभेदोऽप्यनेकधा ।। २३८ ॥ तालानामधुना तेषामुद्देशं संगिरामहे ।
लघ्वादिमितया क्रियया मतः' इति, 'यथाशोभं कांस्यतालध्वननादिकया मतः' इति च विशेषणद्वयेन द्रष्टव्यम् । अत्र यथाशोभमिति पदं देहलीप्रदीपन्यायेन, काकाक्षिन्यायेन वोभयतो योजनीयम् ! तत्र यथाशोभं लध्वादिमितयेत्यस्यायमर्थः---अत्र शोभाशब्देन गीतावयवेषु तालावृत्तीनां कालसाम्यनिबन्धना सहृदयहृदयंगमतोच्यते । तामनतिक्रम्यति यस्मिन् गीतावयवे यावदक्षरमितया मात्रया कांस्यतालकालसाम्यं भवति, तत्र मार्गे पञ्चलघ्वक्षरोच्चारमिता मात्रानियतत्वेन कथिता । क्वचित्तु ततोऽपि न्यूनया चतुर्लध्वक्षरोच्चारमितया कालसाम्यम् । अन्यत्र तु ततोऽप्यधिकया षड्लघ्वक्षरोच्चारमितया। यत्र यथा शोभा भवति तामनतिक्रम्य । लघ्वादिमितयेति । आदिशब्देन गुरुप्लुतद्वता गृह्यन्ते । अत्राल्पग्रहणे द्रुतादीति वा, महद्ग्रहणे प्लुतादीति वा वक्तव्ये लघ्वादीति वचनं देशीतालेषु ग्रहणमोक्षयोलघोरेव प्राधान्यद्योतनार्थम् । तेन केवलद्रुतात्मकेऽपि ताले द्रुतद्वयं लघूकृत्य तत्र ग्रहमोक्षौ कुर्यादिति संप्रदायो वेदितव्यः । अत्रोक्तस्य मात्राप्रमाणभेदस्य तालविशेषनिष्ठत्वेनोदाहरणमुत्तरत्र तालानां पौनरुक्त्यपरिहारावसरे करिष्यते । यथाशोभं कांस्यतालध्वननादिकयेति; कांस्यतालध्वनने या शोभा कचिन्मुक्तनादत्वेन, क्वचिद्गृहीतनादत्वेन, कचिद्विघातेषु करक्रियाविशेषेण, क्वचिद्विघाते घातकल्पनया च जायते, तां शोभामनतिक्रम्य कांस्यतालस्य ध्वननाद्विस्मयवैचित्र्यजनिताश्चर्यवान् ; मतः; लोकसंमत इति मार्गतालाद्वैषम्यं देशीतालस्य । अर्धमात्रमिति ; मात्राया अर्धमर्धमात्रं द्रुत उच्यते । द्रुवादिरचनाभेदादिति । द्रुतादीनां द्रुतलघुगुरुप्लुतानां रचना संनिवेश
Scanned by Gitarth Ganga Research Institute