________________
१३४
संगीतरत्नाकरः श्रीकीर्तिविजयानन्दं पार्वतीलोचनोत्सवम् । राजचूडामणिं नत्वा तालं देशीगतं ब्रुवे ॥ २३६ ॥ देशीतालस्तु लघ्वादिमितया क्रियया मतः । यथाशोभं कांस्यतालध्वननादिकया मतः ॥ २३७ ।।
(क०) अथ देशीतालप्रकरणस्यादाविष्टदेवतां नमस्कृत्य प्रतिपाद्यं प्रतिजानीत-श्रीकीर्तिविजयानन्दमिति । अत्र तालेश्वरयोर्विशेषणानि श्लिष्टानि द्रष्टव्यानि । श्रीकीर्तिविजयानन्दमिति ; श्रिया कीर्त्या विजयेन चोत्पन्न आनन्द एवेश्वरः, अथवा तादृश एवानन्दो यस्येति बहुव्रीहिर्वा । श्रीकीर्तिनामैकस्तालः, विजयानन्द इत्यपरः । पार्वतीलोचनोत्सवमिति; पार्वत्या लोचनयोः उत्सवत्वेन रूपित ईश्वरः पार्वतीलोचन इत्येकस्तालः । उत्सव इत्यन्यः । राजचूडामणिमिति ; राजा चन्द्रः चूडामणियस्येति स तथोक्त ईश्वरः । राजचूडामणिरित्येकस्तालः । उक्तलक्षणमीश्वरं नत्वा श्रीकीधुपलक्षितं देशीगतं तालं ब्रुव इति संबन्धः । अत्र तालमिति जातायेकवचनम् , ईश्वरस्यैकत्वात् । तालस्यापि तद्विशेषणसाम्यसिध्यर्थमेकवचनं कृतमिति मन्तव्यम् ।। २३६ ॥
(सु०) एवं मार्गतालास्तदुपयोगांश्वोक्त्वा देशीतालान् विवक्षुः तदुचितं मङ्गलाचरणपूर्वकं प्रतिजानीते-श्रीकीर्तीति । राजा चन्द्र: चूडामणिर्यस्य स चन्द्रमौलिमहेशः । श्रीश्र कीर्तिश्च विजयश्च एतान् आनन्दयतीति तथाविधः । पार्वत्या भवान्या लोचनयोः नयनयोः उत्सवः यस्मात् ; तथाविधं शिवं नत्वा देशीतालं ब्रुवे कथयामीति संबन्धः । पक्षे श्रीकीर्तिनामा ताल: ; विजयानन्दः; पार्वतीलोचनोत्सवः ; राजचूडामणिश्चेति । तान् ब्रव इति संबन्धः ।। २३६ ।।
(क०) तस्य सामान्यलक्षणमाह-देशीतालस्त्वित्यादि । अत्र तुशब्दो मार्गतालात् देशीतालस्य वैषम्यद्योतनार्थः । तच्च वैषम्यं, 'यथाशोभं
Scanned by Gitarth Ganga Research Institute