________________
पश्चमस्तालाध्यायः
मन्त्ररूपस्तोभाक्षराणामोंकारादीनाम् । मन्त्रेति विशेषणं गीतस्तोभाक्षरनिवृत्यर्थम् । त्रिकलादिकं त्रिकलत्वादिकमिति धर्मपरो निर्देशः । आदिशब्देन षकलत्वं गृह्यते । कर्तव्यमित्यध्याहर्तव्यम् ॥ २३०-२३५ ॥
इति साम । इति गीतप्रकरणानि ।
इति मार्गतालप्रकरणम्
(सु०) साम लक्षयति-स्तोभभङ्गीमिति । वैदिके भागे यथा स्तोभानां भङ्गी चातुरी तथैव साम्नां ज्ञातव्या । यत: ब्रह्मणैव पुरा पूर्व गीता । सामाङ्गानि दर्शयति-प्रस्तावेति । सप्त सामाङ्गानि भवन्ति । प्रस्तावः, उद्गीथ , प्रतिहारः, उपद्रवः, निधनम् , हिंकारः, ओंकारश्चेति । तत्राद्यानां पञ्चानामुगाहादिसंज्ञा । प्रस्तावः उगाहः, उद्गीथः, अनुदाहः, प्रतिहारः संबन्धः, उपद्रवो ध्रुवकः, निधनमाभोग इति । हिंकारोंकारयोश्च कलापूरकत्वम् । गायत्रीति । इह साम्नि गायत्रीमारभ्य संकृतिपर्यन्तं छन्द इष्यते । षडक्षरार्दानि छन्दांसि गायत्र्यादीनि चतुर्विशत्यक्षरपर्यन्तानि ज्ञातव्यानि ।
"गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव तथातिजगती मता । शक्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते । धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृति: ।
विकृति: संकृतिश्चैव" । इति ॥ इदं साम ऋच्यूढं ऋचि वर्तमानमुक्तम् । गेयं सामानि तु एकाक्षरात् षण्णवतिकला: सामगाने उक्ता: । केचित् अर्धमष्टाचत्वारिंशत्कला इति वदन्ति । अत्रापि ऋचि यथावर्तमानं मन्त्रस्तोभानि त्रिकलत्वं षट्कलत्वं च यथायोग्यं ज्ञेयम् ॥ २३०-२३५॥
इति साम । इति गीतप्रकरणानि
इति मार्गतालप्रकरणम
Scanned by Gitarth Ganga Research Institute