________________
१३२
संगीतरत्नाकरः प्रतिहारोपद्रवौ च निधनं पञ्चमं मतम् ॥ २३१ ॥ ततो हिंकार ओंकारः सप्ताङ्गानीति तत्र तु । उद्याहः स्यादनुयाहः संबोधो ध्रुवकस्तथा ।। २३२ ।। आभोगश्चेति पश्चानामाद्यानामभिधाः क्रमात् । हिंकारोंकारयोस्तत्र कलापूरकता मता ॥ २३३ ॥ गायत्रीप्रभृतिच्छन्दः संकृत्यन्तमिहेष्यते । ऋग्व्यूढमिति सामोक्तं गये षण्णवतिः कलाः ॥ २३४ ॥ एकाक्षराः सामगाने तदधेपपरे जगुः । अत्रापि मन्त्रस्तोभानामृचां च त्रिकलादिकम् ।। २३५ ।।
इति साम । इति गीतप्रकरणानि
इनि मार्गतालप्रकरणम् सामाख्यगीतस्य वैदिकसामवत् ऋगादिवाक्यविशेषस्य गीतिवत् । यथोक्तम्“गीतिपु सामाख्या" इति । स्तोभभङ्गी स्तोभाक्षराणां प्रकार विजानीयात् । ब्रह्मणा च पुरा गीतमित्यत्र सामेत्यध्याहर्तव्यम् । प्रस्ताव इत्यादि। वैदिके सामनि प्रस्तावाख्यस्य अङ्गस्य गीते सामन्युद्ग्राह इति संज्ञा । उद्गीथस्य अनुग्राह इति संज्ञा । प्रतिहारस्य संबन्ध इति संज्ञा। उपद्रवस्य ध्रुवक इति संज्ञा । निधनस्य आभोग इति संज्ञा । एवं क्रमो द्रष्टव्यः । तत्र गीते हिंकारोंकारयोः कलापूरकता द्रष्टव्या । इह सामगीत गायत्रीप्रभृति संकृत्यन्तं छन्द उच्यते । गायत्री षडक्षरपादा । संकृतिः चतुर्विंशत्यक्षरपादा। गाथायां सानो मतान्तरेण कलासंख्यानियममाह-गद्य इत्यादिना। गद्य गाथायामेकैकाक्षराः षण्णवतिः कला भवन्ति । सामगाने तदर्थमिति । तस्याः षण्णवतिसंख्यायामर्धमष्टाचत्वारिंशत्कला भवन्तीन्यर्थः । अत्रापीति । सामाख्यगीतेऽपि । ऋचीवर्गाख्ये गीत इव । मन्त्रस्तोभानां
Scanned by Gitarth Ganga Research Institute