________________
१३१
पञ्चमस्तालाध्यायः कला मुनिजनैरुक्ता गाथायाश्चतुरक्षरा । अध्यष्टाविंशतिशतं कलानां तत्र कीर्तितम् ॥ २२८ ॥ मात्रात्तैः कलानां च पूर्तिः स्तोभाक्षरैरपि । कर्तव्यान्येककान्यत्र वर्णालंकारगीतयः ।। २२९ ॥ सामाङ्गानि च भूयांसि विविधानामिहाल्पता ।
इति गाथा स्तोभभङ्गी विजानीयात्साम्नो वैदिकसामवत् ॥ २३० ॥ ब्रह्मणा च पुरा गीतं प्रस्तावोद्गीथको तथा ।
(क०) अथ गाथां लक्षयति-कला मुनिजनैरित्यादि । गाथायाः कला मुनिजनैः चतुरक्षरोक्ता । एकैकस्यां कलायां चत्वारि चत्वार्यक्षराणि प्रयोज्यानीत्यर्थः । तत्रेति । तत्र ; गाथायाम् । अध्यष्टाविंशतिकलानां शतं कीर्तितम् । अष्टाविंशत्या अधिकमध्यष्टाविंशति ; शतविशेषणम् । मात्रात्तैः स्तोभाक्षरैरपि स्तोभाक्षरैरपि कलानां पूर्तिर्भवेत् । अत्र गाथायामेककानि कर्तव्यानि । वर्णालंकारगीतयश्च कर्तव्याः । सामाङ्गानि प्रस्तावादीनि ॥ २२८, २२९ ॥
इति गाथा (सु०) गाथां लक्षयति-कलेति । गाथायाः चतुरक्षरा कला उक्ता | आद्यायां मात्रायां कलानामष्टाविंशत्युत्तरं शतं विधेयम् | कलानामपि परिपूर्ति: परिपूरणम् । वृत्तैः श्लोकः स्तोभाक्षरैरपि कर्तव्यम् । अत्र गाथायाम् ; एककानि कर्तव्यानि । वर्णालंकारगीतयश्च कर्तव्याः । इह ; गाथायाम् ; सामाङ्गानां प्रस्तावादीनां बाहुल्यम् , विविधानामल्पत्वमिति ॥ २२८, २२९- ॥
इति गाथा
(क०) अथ साम लक्षयति-स्तोभभङ्गीमित्यादिना । साम्नः
Scanned by Gitarth Ganga Research Institute