________________
१३०
संगीतरत्नाकरः त्रिकलः षट्कलो वात्र स्तोभः स्यान्मुनिसंमतः ॥ २२६ ॥ प्रस्तावादीनि सप्तापि सामाङ्गान्यत्र चावदन् । यथाशोभं विदारी च वर्णाश्च रचयेदिह ॥ २२७ ।।
इति ऋक् ओंकारो व्यञ्जनसंयुतः, हकारः स्वरसंयुत इत्यर्थक्रमो द्रष्टव्यः । त्रिकल: षट्कल इति । औकारो हकारश्च कलात्रयकालयुक्तो वा कलाषट्ककालयुक्तो वा कर्तव्य इत्यर्थः । प्रस्तावादीनीत्यादि । प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनहिंकारहुंकारा इति सप्त सामाङ्गानि । वर्णाश्चेति । स्थाय्यादी. नीत्यर्थः ॥ -२२३-२२७ ॥
___ इति ऋक्
(सु०) ऋचं लक्षयति–आरभ्येति । अनुष्टुपूच्छन्द आरभ्य, अष्टाक्षरमारभ्य, जगतीछन्दान्तैः द्वादशाक्षरपर्यन्तं लौकिकै: वैदिकैर्वा पदैः ऋचं गायन्ति भरतादयः कथयामासुः । एकाक्षग इति । अस्यां ऋचि एकाक्षरा: अष्टाचत्वारिंशत्कला गेयाः । ननु मन्त्राक्षगणामल्पत्वे कथं कलापूर्ति: ? अत आह-कलानामिति । कलानां पूरणमत्र मन्त्रपदैः स्तोभाक्षरैरपि कार्यम् । तान्येव ब्रह्मणा गीतानि स्तोभाक्षराणि प्रतिज्ञाय निर्दिशति-तानीत्यादिना । स्तोभाक्षराण्याह-ओंकार इति | ओंकारोऽपि स्तोभत्वेन मुनिभि: संमतः । ओंकारश्च येन केनचित्स्वरेण व्यञ्जनेन च संयुत: स्तोभ: उभावपि कलात्रये कला षष्ठे वा स्तोभत्वेन ज्ञेयौ । प्रस्तावादीनि च सप्तापि सामाङ्गानि स्तोभ इति ज्ञातव्यानि । इह ; ऋचि यथाशोभं यथारुचि शोभार्थ स्वेच्छया विदारी वर्णाश्च रचयेत् । सामाङ्गान्यनुपदमेव वक्ष्यति ॥ -२२३-२२७ ॥
इति ऋक्
Scanned by Gitarth Ganga Research Institute