________________
१२९
पञ्चमस्तालाध्यायः आरभ्यानुष्टुभं वृत्तैर्जगत्यन्तैः पदैरपि ।। २२३ ॥ लौकिकैर्वैदिकैर्वापि गातव्यामृचमूचिरे । एकाक्षराः कला अष्टाचत्वारिंशदिहोदिताः ॥ २२४ ॥ कलानां पूरणं मन्त्रपदैः स्तोभाक्षरैरपि ।
तान्यत्र ब्रह्मगीतानि निर्दिश्यन्तेऽधुना यथा ॥ २२५ ॥ झण्टुं जगतियवलिकितकुचझलतितिझलपशुपतिदिगिदिगिवादिगोंगणपतितितिधा, इत्येतान् ब्रवीद्ब्रह्मा ।
ओंकारश्च हकारोऽपि स्वरव्यञ्जनसंयुतः । ताशतासमिति लिखेत् । इति संपिष्टकेण शीर्षकम् । अन्ये तु अन्ताहरणसहितं शीर्षकमाहुः । स चोल्लोप्यके दर्शितोऽत्रानुसंधेयः ।।
__ इति पाणिका (क०) अथर्च लक्षयति-आरभ्येत्यादि। अनुष्टुभं छन्द आरभ्य । जगत्यन्तैरिति; अनुष्टुभमष्टाक्षरपादयुक्तं, जगती नाम द्वादशाक्षरपादयुक्तं छन्दः । तदुद्भवैः वृत्तैः पदैरपि संस्कृतैः लौकिकैः वैदिकैर्वापीति वृत्तानां पदानां च विशेषणम् । लौकिकानि वृत्तानि विचित्रपदादीनि ; वैदिकानि वृत्तानि पुर उष्णिगादीनि ; लौकिकानि पदानि ब्राह्मणाः, देवा इत्येवमादीनि : वैदिकानि पदानि ब्राह्मणासः, देवास इत्येवमादीनि । एकाक्षरा इत्यादि । इह ; ऋचि । एकाक्षराः कला इति । एकैकस्यां कलायामेकैकमक्षरं प्रयोक्तव्यमित्यर्थः । अत्रोक्तासु अष्टाचत्वारिंशत्कलासु मध्ये कासुचित् वृत्ताक्षरैः पूरितासु, अवशिष्टानां वक्ष्यमाणैः स्तोभाक्षरैरपि पूरणम् ऊचिर इति क्रियानुषतः कर्तव्यः । तानि पदानि स्तोभाक्षराणि दर्शयति-तान्यत्र ब्रह्मगीतानीत्यादिना | स्वरव्यञ्जनैः संयुत इत्यत्र
Scanned by Gitarth Ganga Research Institute