________________
पश्चमस्तालाध्यायः
१२७
आया रोविन्दकगता मात्रैका पाणिका मुखम् । मात्रा स्यादवराष्टाङ्गा षोडशाङ्गा परा मता ॥ २१९ ॥ उल्लोप्यकवदङ्गानां निवेशं कोविदा विदुः । विदार्यः स्युः स्तुतिपदैराकारान्तरितैरिह || २२० ॥ निरन्तरैः स्तुतिपदैराकारैश्चाथवा क्रमात् । मुखात्परं प्रतिमुखं मुखवत्स्यात्पदान्तरैः ।। २२१ ॥ अथोत्तरैश्चतुर्भिः स्याच्छरीरं तु यथाक्षरैः । ततः शीर्ष सैककेन कार्य संपिष्टकेन तु ॥ २२२ ॥ अन्येऽन्ताहरणेनान्तान्वितेनेच्छन्ति शीर्षकम् ।
(क०) अथ पाणिकां लक्षयति-आयेत्यादि । रोविन्दकगता; आद्या एका मात्रा पाणिका स्यात् । रोविन्दकगतेत्यनेन मात्रायाः षोडशकलत्वम् , आनिविप्रादियुक्तत्वं च वेदितव्यम् । मुखमित्युपोहनं रोविन्दक. गतमिति लिङ्गव्यत्ययेनानुषञ्जनीयम् । तेन तदत्राप्यष्टकलमित्यवगन्तव्यम् । अष्टाङ्गमात्रा अवरा स्यात् । षोडशाङ्गमात्रा परा स्मृता । उल्लोप्यकवदित्यादि । अङ्गानां विविधादीनां निवेशमुल्लोप्यके यथा तथात्रापि कर्तव्यं विदुः । इह ; पाणिकायाम् , आकारान्तरितैः स्तुतिपदैः विदार्यः स्युरित्येकः पक्षः । अथवा निरन्तरैः स्तुतिपदैः निरन्तरैराकारैश्च क्रमात् विदार्यः स्युरिति पक्षान्तरम् । मुखवत्स्यात्पदान्तरैरिति । मुखप्रतिमुखयोः पदभेद एव, न गीतिभेद इत्यर्थः । अथ ; प्रतिमुखानन्तरम् । ततः शरीरं सैककेन एककाख्यानसहितेन संपिष्टकेण दशकलेन वा शीर्ष कार्यम् । अन्ये आचार्याः अन्तान्वितेन अन्ताहरणेन शीर्षकमिच्छन्ति ।। २१९-२२२- ॥
(सु०) पाणिकां लक्षयति-आद्येति । रोविन्दकगता आद्या मात्रा पाणिकाया: मुखं स्यात् । सा मात्रा अवरा हीना अष्टाङ्गा; परा उत्तमा
Scanned by Gitarth Ganga Research Institute