________________
१२४
संगीतरनाकरः आसारितेभ्य उत्पन्न वर्धमानं विवक्ष्यते । यदा तदा वर्धमानासारितं तदुदाहरन् ॥ २१५ ॥ यदा पूर्वक्रमाद्गीतास्तालैस्तैरेव कण्डिकाः । वर्धमानासारितानि तदा चत्वारि पूर्ववत् ॥ २१६ ॥ कनिष्ठादीनि भान्त्यत्र तालांशा वर्धमानवत् । यथाक्षरादिभेदेन पुनः सर्वाण्यपि त्रिधा ॥ २१७ ॥ यथाक्षरादित्रितयं दक्षिणे वार्तिके द्वयम् । चित्रे त्वेकमितीमानि षट्प्रकाराणि मार्गतः ॥ २१८ ॥
(क०) आसारितेभ्य इत्यादि । पूर्वमासारिताभास आसारितानामुत्पत्तिर्वर्धमानादिति दर्शितम् । इदानीं तद्विपर्यय उच्यते । यदा वर्धमानासारितेभ्य उत्पन्न मिति विवक्ष्यते ; तदा तद्वर्धमानासारितमित्युदाहरनाचार्याः । तेनात्र विवक्षयैव भेदो द्रष्टव्यः । स्वरूपस्तु नातीव भेदोऽस्तीति मन्यमान आह-यदा पूर्वक्रमादिति । अत्र वर्धमानासारितेषु कनिष्ठादीन्यासारितानि भान्ति प्रतीयन्ते । तालांशाः; तालभागाः, वर्धमानवत् वर्धमान इव भान्ति । तत्त्वतस्तु तावन्मात्रामितत्वाद्वर्धमाना एव । यथाक्षरादिभेदेनेत्यादि । सर्वाण्यपीति । मार्गलयमात्रभिन्नस्य लयान्तरस्य कनिष्ठादिव्यतिरेकात तदुत्थानि त्रीणि वर्धमानानि विहाय इतराणि कण्डिकावर्धमानानि त्रीणि, आसारिताभासादीनि त्रीणि, वर्धमानासारितानि त्रीणीति मिलित्वा नव गृह्यन्ते ; तानि नवापि । यथाक्षरादिभेदेनेति । आदिशब्देन द्विकलचतुष्कलभेदौ गृह्यते । एवं त्रिविधानि भवन्ति । यथाक्षरादित्रितयं दक्षिण इति । दक्षिणमार्गे पूर्वोक्तानि नवापि यथाक्षराणि द्विकलानि चतुष्कलानि च भवन्ति । वार्तिके द्वयमिति । वार्तिके मार्गे यथाक्षराणि च द्विकलानि चतुष्कलानि च भवन्ति ।
Scanned by Gitarth Ganga Research Institute