________________
११८
संगीतरत्नाकरः उद्घट्टादिः सुनन्दायां भवेयुग्मो यथाक्षरः । स एव तालो द्विकलः सुमुख्याः स्यादुपोहने ।। २०७ ॥ कण्डिकानां वदन्तीत्थं परिवर्तान्दशापरे । विशाला संगता वाद्या सुनन्दा संगतादिमा ॥ २०८॥ सुमुखी च सुनन्दाद्या संगता च विशालिका ।
आसारितवदत्रापि कलानां गणकल्पना ॥ २०९ ।। तालश्चेति द्वन्द्वैकवद्भावान्नपुंसकलिङ्गनिर्देशः । द्विरिति । शताशतेत्यर्थः । अन्ते पञ्चम्यां कलायां संनिपातः कर्तव्यः । अन्यस्याः संगताया उपोहने षट्कलात्मके द्विकलश्चाचपुटः कर्तव्यः । सुनन्दाया उपोहने सप्तकलात्मक उद्घट्टादिर्यथाक्षरो युग्मः चच्चत्पुटो भवेत् । सुमुख्या उपोहनेऽष्टकलात्मके द्विकल: चच्चत्पुटो भवेत् । कण्डिकानामित्यादि । अपरे; आचार्याः कण्डिकानाम् इत्यमिति वक्ष्यमाणप्रकारेण दश परिवर्तान् वदन्ति । तान् दर्शयति-विशालेत्यादिना । आद्या विशाला । पुनरादिमा विशाला । अत्र; कण्डिकावर्धमाने । कलानां गणकल्पना आसारितवदिति । चतुर्मात्राक्षरगणा सर्वाप्यासारित कलेति यदुक्तं तद्वदित्यर्थः ॥ २०६-२०९ ॥
(सु०) शम्येति । उपोहने पञ्चकलात्मके शम्यातालमपि द्विरुच्चारणीयम् । अन्ते च संनिपातः । आद्याया इति । विशालाया उपोहने द्विकलश्चाचपुटतालः । संगताया उद्घट्टादिः, आदिशब्देन संपक्केष्टाकः । सुनन्दाया उपोहने यथाक्षरश्चञ्चत्पुटः, सुमुख्या उपोहने द्विकलश्चञ्चत्पुटः इति । मतान्तरमाह-कण्डिकानामिति । अपरे ; अन्ये आचार्याः कण्डिकानां दश परिवर्तान् वदन्ति । इत्थम् ; अनेन प्रकारेण कण्डिकालक्षणपरिवर्तनं वदन्ति । तस्मिन्पक्षे तं प्रकारमाह-विशाल ति । विशाला संगता आयेत्येकः पक्षः, सुनन्दा संगता आयेति द्वितीयः, सुमुखी सुनन्दा आद्येति तृतीयः, संगता विशाला आद्येति चतुर्थः । अत्रापि आसारितवत् गणाः कल्पनीयाः ॥ २०६-२०९ ॥
इति कण्डिकावर्धमानम्
Scanned by Gitarth Ganga Research Institute