________________
पश्चमस्तालाध्यायः
मध्यमासारितादिस्थवस्तुवत्ताल इष्यते ॥ २०४ ।। विशालायां संगतायां द्विकलो युग्मसंज्ञकः । चतुष्कल: सुनन्दायां सुमुख्यां स द्विरुच्यते ।। २०५ ।। शम्यातालं द्विरन्ते च संनिपात उपोहने ।
आद्याया द्विकलचाचपुटेऽन्यस्या उपोहने ॥ २०६ ॥ दिगिदिगि कुचझलतितिझलकुचझलतितिकुचवा इति सुमुख्योपोहने ज्येष्ठासारितोपोहने चाक्षराणि । इति भरतवचनस्यार्थः ॥"
"(सु०)तानीति। यान्यक्षराणि भरतेनोक्तानि तान्येवाह-झण्टुमिति । कनिष्ठासारिते ताले कुचझलझण्टुमित्यक्षराणि गेयानि । लयान्तरेति । लयान्तरासारित तितिजलवृद्धमित्यक्षराणि ; मध्यमासारिते कुचझलसहितान्यक्षराणि ; ज्येष्टासारित तितिकुचेत्यक्षराणि ज्ञातव्यानि ॥" ।
(क०) विशालादिषु तालं योजयति-मध्यमासारितेत्यादिना । विशालायां तालो मध्यमासरितादिस्थवस्तुवत; मध्यमासारितस्यादौ स्थितं वस्तु नवकलात्मकं तत्र यस्तालः स एव विशालायां कर्तव्य इत्यर्थः । संगतायां द्विकलो युग्मसंज्ञकः द्विकलश्चच्चत्पुटः कर्तव्यः । सुनन्दायां चतुष्कल इति, युग्मसंज्ञक इत्यनुषञ्जनीयः । सुमुख्यां सः चतुष्कलचच्चत्पुटो द्विरुच्यते ॥ -२०४, २०५ ॥
(सु०) मध्यमासारितेति । एषु वस्तुषु यस्ताल:, स एव विशालायां ज्ञातव्यः । संगतायां द्विकलश्चच्चत्पुटः; सुनन्दायां चतुष्कलश्चच्चत्पुटः ; समुख्यां स एव चतुष्कलश्चच्चत्पुटः द्विरुच्यते ॥ -२०४, २०५ ॥
(क०) अथोपोहनेषु तालं योजयति-शम्यातालमित्यादिना । आद्याया विशालाया उपोहने पञ्चकलात्मके शम्यातालम् । शम्या च
Scanned by Gitarth Ganga Research Institute