________________
११४
संगीतरत्नाकरः कण्डिकावर्धमानं चासारितामासमित्यपि ।
वर्धमानासारितं तु वर्धमानमिति त्रिधा ॥ १९९ ॥ रहिते मार्गे ध्रुवादिमिश्रात्मक इत्यर्थः । अपरे त्वित्यादि । आवृत्तिविधुरमिति । ध्रुवासारितस्य लक्षणमवगन्तव्यम् । ध्रुवमार्गत इति । त्रयोदशविधमिति । कनिष्ठासारिताद्यासारितचतुष्टयस्य प्रत्येकं यथाक्षरत्वादिभित्रैविध्य द्वादश विधम् ; मतान्तरोक्तेन ध्रुवासारितेन साकं त्रयोदश विधमासारितं भवति ॥ १९३-१९८ ॥
इत्यासारितलक्षणम् (सु०) एवमुपोहने नियममुक्त्वा सर्वस्मिन्नप्यासारिते गणनियममाहचतुर्मात्रेति । सर्वस्मिन्नप्यासारिते चतुर्मात्रगणाः कलाः । तत्र च सर्वगणैः अवसाने संनिपातः । अन्यैस्तु विभक्ताङ्गे आसारिते मध्यवर्तिना अर्धेन गणेन संनिपात उक्तः । मतान्तरे आदितालानामुपोहनाङ्गे हीनत्वमाह-आसारितानीति । यथाक्षरमिति । इदं चतुर्विधमप्यासारितं त्रिधा; यथाक्षरं, द्विसंख्यातं, त्रिसंख्यातमिति । तानि लक्षयति-तत्रेति । आवृत्त्या हीनं यथाक्षरम् ; द्विरुच्चारितं द्विसंख्यातम् ; त्रिरुच्चारितं त्रिसंख्यातमिति । आवृत्तीति । अतः त्रिसंख्या, ते अन्तिमावृत्तिद्वयमाद्यादावर्तनात् अर्धाधलयम् , आद्यावृत्तौ यो लयः, तस्मात् अर्धलयो द्वितीयावृत्तौ, ततोऽप्यर्धलयो तृतीयावृत्ताविति । मार्गनियममाह-यथाक्षरमिति । यथाक्षरं सर्वेषु मार्गेषु गेयम् । परं द्विसंख्यातं वृत्तिदक्षिणयोः; त्रिसंख्यातं दक्षिणे ; कनिष्ठं वृत्तिचित्रयोर्मार्गयोः । लयान्तरं स्वतन्त्रे स्वाधीने कस्मिंश्चिन्मार्ग इति । एवं द्वादशविधान्यसारितान्युक्त्वा मतान्तरेण पुनरप्येकविधमासारितभेदमाह-अपर इति । अपरे; केचित् । ध्रुवासारित मिति । ध्रुवमार्गेण आवृत्तिहीनं गेयमित्याहुः ॥ १९३-१९८ ॥
इत्यासारितलक्षणम् (क०) कण्डिकावर्धमानस्य लक्षणमाह-कण्डिकाभिरित्यादि । विशालादीनां चतसृणां कण्डिकानां कलासंख्यानियममाह-तासां नवाष्टौ
Scanned by Gitarth Ganga Research Institute