________________
११५
पञ्चमस्तालाध्यायः कण्डिकाभिश्चतसृभिः कण्डिकावर्धमानकम् । विशालाद्या संगता च सुनन्दा सुमुखी तथा ॥ २० ॥ चतस्रः कण्डिकास्तासां नवाष्टौ षोडश क्रमात् । द्वात्रिंशच्च कला ज्ञेयाश्चतुरासारितस्थवत् ॥ २०१ ।। क्रमादुपोहनान्यासां झण्टुमित्यादिमौ गुरू । वा इत्यन्ते मुखानां स्याद्विशालायां तु मध्यमाः ॥ २०२ ॥ लाश्चतुदेश चत्वारश्चत्वारोऽन्येषु तेऽधिकाः। एष्वक्षराणि नियतान्यबूत श्रेयसे विधिः ॥ २०३ ।।
भगवान् भरतस्त्वाह तानि व्यक्तानि तद्यथा । षोडश क्रमात् द्वात्रिंशच्च कला ज्ञेया इति । तत्र विशालाया नव कलाः ; संगताया अष्टौ कलाः; सुनन्दाया षोडश कलाः; सुमुख्या द्वात्रिंशत्कला इति क्रमः । आसामुपोहनानि क्रमाच्चतुरासारितस्थवदिति । चत्वारि च तान्यासारितानि तेषु तिष्ठन्तीति तत्स्थानि तान्युपोहनानीति ; विशालायां पञ्चकलमुपोहनं, संगतायां षटकलं, सुनन्दायां सप्तकलं, सुमुख्यामष्टकलमिति क्रमेण द्रष्टव्यम् । तेषामक्षराणि तत्संख्यां चाह-झण्टुमित्यादिना। 'झण्टुम्' इत्युपोहनानामादौ गुरू प्रयोक्तव्यौ । 'वा' इत्येको गुरुरन्ते प्रयोक्तव्यः । मुखानां मुखसंज्ञकानामुपोहनानामेवमाद्यन्तवर्णनियमः स्यात् । प्रत्येकं मध्यवर्णसंख्यामाह-विशालायां त्वित्यादि । विशालायामुपोहने मध्यमा लघवश्चर्तुदश स्युः । अन्येषु ; संगताद्युपोहनेषु । चत्वारश्चत्वारो लघवोऽधिका इति । पूर्वपूर्वापेक्षयेत्यर्थः । एवित्यादि । विधिः ; ब्रह्मा । श्रेयसे ; अभ्युदयाय, एषु ; उपोहनेषु, नियतानि अक्षराणि अब्रूत । तानि व्यक्तानीति । भरतोक्तान्यक्षराणि च व्यक्तानि ; भरतवचनेनैवेत्यर्थः । तदेवोदाहर्तुमाह-तद्यथेति ॥ १९९-२०३- ।।
Scanned by Gitarth Ganga Research Institute