________________
पथमस्तालाध्यायः
११३
विभक्ताङ्गमध्यवर्ती गणेनार्धन वा मतः । असारितान्याहुरन्ये हीनान्यङ्गैरुपोहनैः ।। १९४ ॥ यथाक्षरं द्विसंख्यातं त्रिसंख्यातमिति विधा। सर्वमासारितं तत्रावृत्तिहीनं यथाक्षरम् ॥ १९५॥ द्विसंख्यातं त्रिसंख्यातं द्वित्रिरुच्चारणे क्रमात् । आत्तिद्वयमात्राद्यादर्धाधलयमिष्यते ॥ १९६ ॥ यथाक्षरं सर्वमार्गे वृत्तिदक्षिणयोः परम् । दक्षिणे स्यात् त्रिसंख्यातं कनिष्ठं वृत्तिचित्रयोः ॥ १९७ ।। लयान्तरे स्वतन्त्र स्यादपरे त्वपरं जगुः । ध्रुवासारितमात्तिविधुरं ध्रुवमार्गतः ॥ १९८ ॥
त्रयोदशविधमासारितम् सामान्यम् । संनिपातस्त्वित्यादि । अर्धगणप्रमाणः संनिपातः । अवसाने; वस्त्वन्ते प्रयोक्तव्यः । अयं संनिपातः पुनः विभक्ताङ्गे वस्तुनि अर्धन गणेन मध्यवर्ती वा प्रयोक्तव्य इत्यन्यैर्मतः । अन्ये आचार्या आसारितानि अङ्गैः उपोहनैश्च हीनानि आहुः । यथाक्षरमित्यादि । आत्तिहीनमिति । एकवारं कृतमित्यर्थः । अत्रेति । अत्र ; संख्यात आद्यात् प्रथमादावर्तनात् । आवृत्तिद्वयं द्वितीय तृतीयं चावर्तनम् । अर्धाधलयमिति । अयमर्थः--प्रथमावृत्तौ विलम्बितो लयः । द्वितीयावृत्तौ तद? मध्यलयः । तृतीयावृत्तौ तद| द्रुतलयः कर्तव्य इत्यर्थः । यथाक्षरमित्यादि । यथाक्षरमासारितं सर्वमार्गे ध्रुवादिमार्गचतुष्टयेऽपि प्रयोक्तव्यमित्यर्थः । परं द्विसंख्यातं वृत्तिदक्षिणमार्गयोः प्रयोक्तव्यम् । त्रिसंख्यातं दक्षिणमार्गे स्यात् । कनिष्ठम्: कनिष्ठासारितम् । वृत्तिचित्रयोः मार्गयोः प्रयोक्तव्यम् । लयान्तरे स्वतन्त्रे स्यादिति । स्वतन्त्रे; नियम
Scanned by Gitarth Ganga Research Institute