________________
११२
संगीतरत्नाकर:
उपोहनानां गुरुणी द्वे द्वे आद्यन्तयोर्मते ।
अष्टौ द्वादश मध्ये लाः क्रमात् षोडश विंशतिः ।। १९१ ॥ एतेषु स्याद् ध्रुवः पातः कलयोरन्त्ययोर्गुरुः । एकैकमक्षरं शेषाश्चतुर्मात्रगणाः कलाः ।। १९२ ॥ चतुर्मात्राक्षरगणाः सर्वाप्यासारित कला | संनिपातस्त्वर्धगणोऽवसानेऽन्यैरयं पुनः || १९३ ||
(क० ) अथोपहनेषु गुरुलध्वक्षरसंख्या नियममाह - उपोहनानामित्यादि । कनिष्ठासारितो पोहन आदौ द्वे गुर्वक्षरे अन्त्ये च द्वे गुर्वक्षरे मध्ये अष्टौ लध्वक्षराणि । लयान्तरासारितो पोहन आद्यन्तयोः पूर्ववत् । मध्ये द्वादश लध्वक्षराणि । मध्यमासारितोपहनेऽप्याद्यन्तयोः पूर्ववत् । मध्ये षोडश लध्वक्षराणि । ज्येष्ठासारितो पोहनेऽप्याद्यन्तयोः पूर्ववदेव । मध्ये विंशतिर्लघ्वक्षराणि कर्तव्यानीति क्रमो द्रष्टव्यः । एतेष्वित्यादि । एतेषु ; उपोहनेषु ध्रुवः पातः स्यात् । अन्त्ययोः कलयोरेकैकं गुर्वक्षरं कर्तव्यम् । शेषाः कलाः चतुर्मात्रगणाः ॥ १९१, १९२ ॥
(सु० ) उपोहनानामिति । उपोहनानाम्; आये द्वे कले, अन्त्ये कले च गुरुणी, मध्ये तु अष्टसंख्यादयो लाः लघवः क्रमेण ज्ञातव्याः । कनिष्ठासारिते मध्ये अष्टौ लघवः ; लयान्तरे द्वादश; मध्यमासारिते षोडश ; ज्येष्ठासारिते विंशतिरिति । एतेषु ; सर्वेषूपहनेषु ध्रुवपातो ज्ञातव्यः । अन्त्ययोर्द्वयोः कलयोः गुरुरूपमेकैकमक्षरं ज्ञातव्यम् । शेषाः कलाः चतुर्मात्रैणिः कार्याः ॥ १९१, १९२ ॥
(क०) एतदेव विवृणोति --- चतुर्मात्राक्षरगणेति । अक्षराणां गणोऽक्षरगणः ; चतस्रो मात्रा यस्य स चतुर्मात्रः ; चतुर्मात्रोऽक्षरगणो यस्यां कलायां सा तथोक्ता । आसारिते सर्वापि कला चतुर्मात्रगणा कर्तव्येति
Scanned by Gitarth Ganga Research Institute