________________
पवमस्तालाध्यायः
saat शरीरसंहारौ क्रमात्सर्वेषु कीर्तितों ।। १८९ ॥ पादभागा विहायाद्यां शम्यामगुलिकर्मणि । विभक्ताङ्गेषु तेषु स्युरविभागे यथास्थितम् ॥ १९० ॥ कीर्तिताः । त्र्यश्रावित्यादि । त्र्यश्रौ; चाचपुटैौ । शरीरसंहाराविति । शरीरं नाम पूर्वोक्तलक्षणमङ्गम । संहारः संहरणं नामाङ्गं सर्वेष्वासारितेषु | क्रमात् कीर्तिताविति । प्रथमचाचपुटेन शरीरं, द्वितीयचाचपुटेन संहार इति क्रमो द्रष्टव्यः । पादभाग इत्यादि । एतान्यासारितानि विभक्ताङ्गानि अविभक्ताङ्गानीति द्वेधा भवन्ति । तेषु विभक्ताङ्गेषु कृतेषु पादभागा आद्यां शम्यां विहाय अङ्गुलिकर्मणि स्युरिति । यत्र पादभागे शम्या आद्या भवति, तत्र तां सकलेन पाणिना प्रयुज्य इतरासु कलासु पूर्वोक्तमङ्गुलिनियमं कुर्यादित्यर्थः । अविभाग इति । अङ्गानामविभागे अविभक्ताङ्गेष्वित्यर्थः । यथास्थितमिति । सामान्येन पूर्वोक्तमेव कुर्या - दित्यर्थः ॥ १८७ - १९०॥
१११
(सु० ) एतेषामिति । एतेषाम् ; चतुर्णामा सारितानाम् । पश्च कलादीनि उपोहनानि ज्ञातव्यानि । कनिष्ठे पञ्च कला उपोहनम् ; लयान्तरे षट् कला उपोहनम् ; मध्यमे सप्त कला उपोहनम् ; ज्येष्ठे अष्टौ कला उपोहनमिति । तेषां सर्वषामपि अन्ते संनिपातयुक्तानि त्रीणि त्रीणि वस्तूनि भवन्ति । आसारितानामनन्तरमुपोहन मुखं नामाङ्गं भवति । कनिष्ठे लयान्तरे च आसारिते प्रतिमुखं भवति । युग्मताल: ; चञ्च्चत्पुटतालेन गेयम् । मध्यमासारिते आद्या अष्टौ कलाः प्रतिमुखं भवति । ज्येष्टासारिते आद्याः षोडश कलाः प्रतिमुखं भवतीति । त्र्यश्री त्र्यश्रताले गेयौ । शरीरसंहारौ द्वौ अंशविशेषौ सर्वेष्वप्यासारितेषु ज्ञातव्यौ । पादभागे विभक्तानि पृथङ्निर्मितानि अङ्गुलीनि येषु तथाविधेषु तेषु आद्यान् पादभागान् विहाय, बहुवचनात् अन्येषु पादभागेषु शम्याः स्युर्भवेयुः । अङ्गानामविभागेन मिश्रीकरणे तु यथास्थितं यथोक्तमेव अङ्गुलिकर्म ज्ञातव्यम् ॥ १८७ - १९० ॥
Scanned by Gitarth Ganga Research Institute