________________
११०
संगीतरत्नाकरः
एतेषां पञ्च षट् सप्ताष्टौ कलाः स्युः क्रमेण तु । उपोहनानि वस्तूनि त्रीणि त्रीणि च निर्दिशेत् ॥ १८७ ॥ संनिपातसमाप्तीनि तेषां मुखमुपोहनम् । युग्मतालः प्रतिमुखं कनिष्ठे च लयान्तरे ॥ १८८ ॥ मध्यमेऽष्टौ कलास्त्वाद्या ज्येष्ठे षोडश कीर्तिताः।
(क०) एतेषामित्यादि । एतेषां कनिष्ठासारितादीनां चतुर्णाम् उपोहनानि तु क्रमेण पञ्च पट् सप्ताष्टौ कलाः स्युरिति । कनिष्ठासारिते पञ्च कला उपोहनम् । लयान्तरासारिते षट् कला उपोहनम् । मध्यभासारिते सप्त कला उपोहनम् । ज्येष्ठासारितेऽष्टौ कला उपोहनमिति क्रमो द्रष्टव्यः । वस्तूनि त्रीणि त्रीणि च निर्दिशेदिति वीप्सया प्रत्यासारितभेदं त्रीणि वस्तूनि निर्देश्यानि भवन्ति । तथाहि कनिष्ठासारिते चच्चत्पुटेन प्रथमं वस्तु । उत्तराभ्यां द्वितीयतृतीये । लयान्तरासारितेऽप्येवमेव । मध्यमासारिते कलात्रयहीनेन द्विकलोत्तरेण प्रथमं वस्तु । सकलाभ्यां द्विकलोत्तराभ्यां द्वितीयतृतीये । ज्येष्ठासारितेऽपि सप्तकलाहीनेन चतुष्कले. नोत्तरेण प्रथमं वस्तु । सकलाभ्यां चतुष्कलोत्तराभ्यां द्वितीयतृतीये वस्तुनी भवतः । संनिपातसमाप्तीनीति । संनिपाते समाप्तिर्येषामिति तथोक्तानि । तत्र मध्यमज्येष्ठासारितयोः वस्तूनां द्विकलचतुष्कलोत्तरसंमितत्वात् संनिपातसमाप्तित्वं प्राप्तमेव । कनिष्ठलयान्तरासारितयोस्तु यथाक्ष. रोत्तरयुक्तत्वेनाप्राप्तत्वेऽपि संनिपातसमाप्तित्वे ; 'संनिपातोऽन्तिमेऽधिकः' इति वचनान प्रापितत्वेनात्र संनिपातसमाप्तीनीत्यनूद्यत इति मन्तव्यम् । तेषां मुखमित्यादि । तेपाम् ; आसारितानाम् . अनन्तरम् , उपोहनं मुखं नामाङ्गं भवति । कनिष्ठे लयान्तरे, आसारितद्वये युग्मताल: चच्चत्पुट: प्रतिमुखं नामाङ्गं भवति । मध्यम आसारिते तु आद्या अष्टौ कलाः प्रतिमुखं नामाङ्गं भवति । ज्येष्ठ आसारित आद्याः षोडश कलाः प्रतिमुखमिति
Scanned by Gitarth Ganga Research Institute