________________
यैः कैश्रिङ्गैर्नवभिश्चतुस्त्रियश्रमुच्यते ।
पादान्मुखं छन्द के स्यात्पादेन प्रतिवक्रकम् ।। १८१ ॥ मुखतालेन वा कार्य गीतान्ते शीर्षकं भवेत् ।
अस्य प्रस्तारः
पथामस्तालाध्यायः
―――
१०५
SS SS
SIIS
संता ताश || इति चतुरश्रं शरीरम् | अथवा - शता शता ।।
;
गेयमित्यादि । गीतकानां मद्रकादीनाम् । इदं छन्दकं मद्रकादिषु एकं गीत्वा तदन्ते गेयमिति । अस्य स्वातन्त्र्येण प्रयोगो नास्तीति प्रतीयते । पृथगुद्दिष्टत्वात् पृथक्प्रयोगोऽपि द्रष्टव्यः । तस्येति । तस्य ; छन्दकस्य च, शरीरं चतुरश्रं वा त्र्यश्रं वेति द्विधा भवति । यैः कैश्चिदङ्गैः नवभिः चतुर्भिः त्र्यश्रमुच्यत इत्यत्र चतुर्भिरङ्गैः चतुरश्रकं नवभिरङ्गैत्र्यश्रमिति क्रमेण योजनीयम् | पादान्मुखमिति । छन्दके गीते पादात ओवेणकोक्तात् पादप्रमाणात् मुखं नामाङ्गं स्यात् । पादेन पादप्रमाणकेन प्रतिवक्रकं प्रतिमुखं नामाङ्ग स्यात् । तत्प्रतिमुखम् मुखतालेन वेति पादलक्षिते मुखे यस्ताल उक्तः, तेन कार्यमित्येकः पक्षः । ततोऽन्येन तालेन वा कार्यमिति विकल्पेन द्योत्योऽन्यः पक्षः । गीतान्त इति । छन्दकान्ते शीर्षकं कर्तव्यं भवेत् ॥ १८०,१८१ ॥
,
(सु० ) विभागपूर्वकं छन्दकं लक्षयति - अन्त इति । गीतानामन्ते छन्दकं गेयम् । तस्य छन्दकस्य । शरीराख्यमङ्ग द्विधा, चतुरश्रं त्र्यश्रं चेति । एते एव लक्षयति-- चतुरश्रकमिति । यैः कैश्चित् स्वेच्छोपनिबद्धैः नवभिर्युतं चच्चत्पुटतालेनोपनिबद्धं चतुरश्रकं तालं तु नाम्ना ज्ञातव्य: । चतुर्भिरङ्गैः सहितं चाचपुटतालेनोपनिबद्धं त्र्यश्रम् । छन्दके मुखं पूर्वोक्तलक्षणलक्षितं कार्यम् । प्रतिवक्त्रं प्रतिमुखं पूर्वोक्ततालेन वा कार्य: । गीतस्य अन्ते शीर्षकं च विधेयम् ॥ १८०, १८१- ॥
(क० ) अस्य ; छन्दकस्य प्रस्तारो यथा— यथाक्षरेण चच्चत्पुटेन
14
Scanned by Gitarth Ganga Research Institute