________________
१०४
संगीतरत्नाकरः द्वौ मार्गौ गीतकेपृक्तौ शङ्खच्छत्रकसंज्ञकौ ॥ -१७८ ॥ शङ्खमार्गोऽङ्गसंक्षेपश्छत्रकस्त्वङ्गविस्तरः । विकल्पो वहुधा तेषु लयमार्गानुसारतः ॥ १७९ ।।
इति सप्त गीतकानि अन्ते गेयं गीतकानां छन्दकं तस्य च द्विधा ।
शरीरं चतुरश्रं वा ज्यश्रं वा चतुरश्रकम् ।। १८० ।। नीया । ततो वैकल्पिकं शीर्षकं पूर्ववत् लिखेत् । इति शीर्षकम् । ततोऽन्तभेदेषु एकोऽन्तो लेखनीयः । तदभावो वा ॥
इत्युत्तरम द्वौ मार्गावित्यादि । गीतकेषु मद्रकादिषु उक्तेषु सप्तसु शङ्खच्छत्रकसंज्ञको द्वौ मार्गावुक्तौ । तत्र अङ्गसंकोचात् शङ्खवत् शङ्खो मार्गः । अङ्गविस्तारात् छत्रवत् छत्रको मार्ग इत्यवगन्तव्यम् । गीतकेधूक्तानामेवाङ्गानां संक्षेपविस्तारौ मातृपरतन्त्राविति दर्शयितुमाह-विकल्प इत्यादिना । तेषु ; अङ्गेषु, लयमार्गानुसारतः पूर्वोक्तानां लयानां मार्गाणां चानुसारात् हेतोः विकल्पो भेदो बहुधा भवति ।। -१७८, १७९ ॥
इति सप्त गीतकानि । (सु०) द्वाविति । एतेषु मद्रकादिषु सप्तसु गीतकेषु द्वौ मार्गो शङ्खः, छत्रकश्चेति । अङ्गस्य संकोचे सति शङ्खः; अङ्गस्य विस्तारे सति छत्त्रकः । एवं गीतकेषूक्तानामङ्गानां संकोचविस्तारौ च द्रष्टव्यः । तेषु, अङ्गेषु लयमार्गानुसारतः विकल्पो भेदो बहुधा भवति ॥ -१७८, १७९ ॥
इति सप्त गीतकानि (क०) अथ गीतेषु प्रथमोद्दिष्टं छन्दकं लक्षयितुमाह-अन्ते
Scanned by Gitarth Ganga Research Institute