________________
पश्चमस्तालाध्यायः
९९
पादभागेष्वानिविपा विशेषस्तुच्यतेऽधुना । तालोऽष्टमोऽन्तिमा शम्या तत्र मात्रासु पञ्चसु ।। १७३ ॥ चतुर्दशस्तु पञ्चम्यां तालोऽन्त्यान्त्येव मद्रके।
शरीरे प्राक्कलास्तिस्रः केऽप्याहुर्माषघातवत् ।। १७४ ॥ च शरीरे, त्रिचतुरा ; त्रयश्चत्वारो वा प्लुताकाराः कर्तव्याः । तेषु प्लुताकारेषु अन्तरान्तरा मध्ये मध्ये पूर्वलक्षितं वृत्तं विधेयम् । तस्य वृत्तस्य ऊर्ध्व पश्चात् अधः पूर्व स्वैरं स्वेच्छया अङ्गानि विविधादीनि योजयेत् । शरीरेति । शरीराख्यस्य आये कलाषट्के उपोहनं प्रयोक्तव्यम् , विविधो वा प्रवृत्तं वा; अङ्गगणनायामुपोहनमप्येकमङ्गं स्यात् । अथ शरीरादनन्तरं केचित् उपवर्तनं षपितापुत्रके गेयमित्याहुः। गीतस्यान्ते यथाक्षरषट्टितापुत्रके शीर्षकं गेयम् । इदं शीर्षकं पञ्च चतुर्धा वा विकल्पेन गेयम् । यथा गीतावृत्तियुक्तम् ; पदावृत्तियुक्तम् ; गीतपदावृत्तियुक्तम् ; आवृत्तिपक्षे तु द्विरावृत्त्या, अथवा त्रिरावृत्त्या वेति । अथवा आवृत्तिहीनमिति । अत्र विशेषमाहआकारैरिति । प्रथमावृत्तौ आआ इति वर्णसमूहै: गायनप्रसिद्धः कर्तव्या । तत्र एककमङ्गं गेयम् । द्वितीया पदावृत्तिस्तु प्रवृत्ताख्येन आगतसहपदैर्युक्ता गेया । त्रिरावृत्तौ तु मध्यमा आवृत्तिः स्वेच्छया यैः कैश्चित् गीताङ्गयुक्ता गेया ॥ -१६३-१७२ ॥
(क०) अथ पातकलायोगं दर्शयति–पादभागेष्वित्यादि । सर्वेषु पादभागेषु आनिविप्रा इति सामान्यम् । विशेषस्तु अधुना उच्यते, तालोऽष्टम इत्यादिना अष्टमद्वितीयपादभागान्त्यस्तालः कर्तव्यः । अन्तिमा शम्येति । अन्तिमा चतुर्थपादभागान्त्या शम्या कर्तव्या । अत्र विधेयतालशम्यापरत्वेन पुंस्त्रीलिङ्गनिर्देशो द्रष्टव्यः । तत्र मात्रासु पश्चस्विति । आद्यासु पञ्चसु मात्रास्वयमुक्तो विशेषः कर्तयः । पञ्चम्यां विशेषान्तरमाहचतुर्दशस्त्विति । चतुर्दशः चतुर्थपादभागे द्वितीयस्तालः कर्तव्यः । अन्त्यान्त्येव मद्रक इति । गद्रके; षष्ठी मात्रा। मद्रके; चतुष्कलमद्रके
Scanned by Gitarth Ganga Research Institute