________________
संगीतरत्नाकरः शीर्षकं गीतकान्ते स्यात्पञ्चपाणौ यथाक्षरे । गीतावृत्त्या पदात्याप्युभयावृत्तितोऽथवा ॥ १७० ।। आवृत्त्या द्विस्त्रिरथवा स्यादात्या विनाथवा । आकारैः प्रथमावृत्तिः कर्तव्यं तत्र चैककम् ॥ १७१ ॥ द्वितीया तु पदैर्युक्ता प्रवृत्तेन प्रकीर्तिता।
त्रिरावृत्ती मध्यमा स्यात्स्वैरं गीताङ्गसंगता ॥ १७२ ।। गीतकान्त इति सामान्यवचनस्य गीतकशब्दस्य अत्र विशेषपरता द्रष्टव्या । गीतकस्य रोविन्दकस्य अन्ते समाप्तौ । यथाक्षरे पञ्चपाणौ शीर्षकं कर्तव्यं स्यात् । तच्च शीर्षकं गीतावृत्त्या वा पदावृत्त्या वा अथवा उभयावृत्तितो गीतपदावृत्तेरिति त्रिविधं भवेत् । आवृत्तिपक्षेऽपि द्विरावृत्त्या त्रिरावृत्त्या वेति द्विविधम् । अथवा आवृत्त्या विना स्यादित्येकः पक्षः । आकारैः प्रथमावृत्तिरिति गीतावृत्तिरुक्ता । तत्र ; प्रथमावृत्तौ ; एककं चेत्यत्र चकारोऽवधारणार्थः । एककमेवेति । द्वितीया तु पदैर्युक्तेति । अत्र पदावृत्तिरुक्ता । सा पदावृत्तिः प्रवृत्तेन गीताङ्गेन प्रकीर्तिता । त्रिरावृत्ताविति । तृतीयावृत्तावित्यर्थः । मध्यमेति गीतिपदमिश्रितोभयवृत्तिरुक्ता । सा स्वैरं यथेष्टं गीताङ्गसंगता विविधादिगीताङ्गयुक्ता भवति ॥-१६३-२७२ ॥
(सु०) रोविन्दकं सक्षयति- सप्ताङ्गमिति । सप्ताङ्गं रोविन्दकम् अवरं हीनम् ; षोडशाङ्गं परम उत्तमम् । तान्येवाङ्गान्याह-तस्येति । तस्य ; रोविन्दकस्य, पादः षण्मात्राविरचित: कार्यः । तस्य पादस्य आद्ये कलाष्टके उपोहनं कर्तव्यम् । तस्योपोहनस्य द्वयोरर्धयोः प्रत्येक विविधेन एककेन च संयोगः । तत: पादादनन्तरं पादावन्ते प्रतिपाद अन्यैः पादैः कर्तव्यः । पादस्यान्ते कलाष्टके ; प्रतिपादस्य अन्त्ये कलाष्टके एका गीतिः कर्तव्या, सा प्रस्तार इत्युच्यते । ततः परं प्रतिपादानन्तरं प्रतिपादस्य अन्त्यकला द्वादशकलया गीत्या द्विकलषदपितापुत्रके शरीराख्यमङ्ग गेयम् । तत्र
Scanned by Gitarth Ganga Research Institute