________________
पञ्चमस्तालाध्यायः
प्रतिपादः पदैरन्यैः पादस्यान्ते कलाष्टके || १६५ ॥ प्रतिपादादिमे चैका गीतिः प्रस्तारसंज्ञका । शरीरं प्रतिपादान्त्यकलाद्वादशकस्थया ।। १६६ ॥ गीत्या ततः परं गेयमुत्तरे द्विकले बुधैः । प्लुताकारास्त्रिचतुराः स्युः शरीरेऽन्तरान्तरा ॥ १६७ ॥ तेषु वृत्तं तदूर्ध्वाधः स्वैरमङ्गानि योजयेत् । शरीराय कलाषट्के प्रयोक्तव्यमुपोहनम् ॥ १६८ ॥ विविधो वा प्रवृत्तं वा गीताङ्गं स्यादुपोहनम् । अथोपवर्तनं केचिदपरान्त कवज्जगुः ॥ १६९ ॥
13
९७
मात्रायामेककम्; एवमत्र पादेऽपि मात्रात्रयात्मकयोरर्धयोः कर्तव्यमित्यर्थः । पादवत्तत इति । ततः पादानन्तरं प्रतिपादवत् षण्मात्रात्मकः सन् अन्यैः पदैः पाद प्रत्युक्तपदेभ्योऽन्यैः पदैः कर्तव्यः । प्रतिपादादिमे चेत्यत्र चकारेण कलाष्टक इत्यनुकृष्यते । अयमर्थः - प्रथमं पादान्त्ये कलाष्टके प्रस्तारसंज्ञका गीतिः कर्तव्या । ततः प्रतिपादादिमे कलाष्टकेऽपि सैव गीतिः कर्तव्येति । शरीरमित्यादि । ततः परं प्रतिपादादूर्ध्वम् । प्रतिपादान्त्य कलाद्वादशकस्थयेति । प्रतिपादस्यान्ते कला कलाद्वादशके तिष्ठतीति तथोक्ता । तया गीत्या युक्तं शरीरं नामाङ्गं द्विकल उत्तरे बुधैर्गेयम् । प्रतिपादान्त्यधातुयुक्तं शरीरं गेयमित्यर्थः । तस्मिन् शरीरे अन्तरान्तरा मध्ये मध्ये त्रिचतुराः प्लुताकाराः प्लुताश्च त आकाराश्चेति कर्मधारयः, ते कर्तव्याः स्युः । तथा तेषु ; आकारेषु वृत्तं पूर्वोक्तलक्षणं योजयेत् । तदूर्ध्वाधः; वृत्तस्य ऊर्ध्वमधश्व, अङ्गानि विविधादीनि, स्वैरम्; स्वेच्छया योजयेत् । शरीरस्य आद्यैककलाषट्क उपोहनं प्रयोक्तव्यम् । तस्मिन् उपोहने विविधो वा प्रवृत्तं वा पूर्वोक्तलक्षणं गीताङ्गं कर्तव्यं स्यात् ।
;
Scanned by Gitarth Ganga Research Institute