________________
संगीतरत्नाकरः सप्ताङ्गमवरं ज्ञेयं षोडशाङ्गं परं तथा ॥ १६३ ॥ रोविन्दं तस्य षण्मात्रः पादोऽस्याये कलाष्टके । उपोहनं मद्रकस्थवस्तुवच्च तदर्धयोः ।। १६४ ॥
विविधैकैकसंयोगः प्रत्येकं पदवत्तत्तः । चच्चत्पुटाभ्यां वेणी ताभ्यामेव प्रवेणी च लिखेत् । यदि वा यथाक्षरोत्तरेण वेणी द्विकलोत्तरेण प्रवेणी च लिखेत् ।
इति वेणीप्रवेण्णौ (क०) ततो मतान्तरेण पूर्वोक्तमुपवर्तनं लिखेत । इत्युपवर्तनम् । ततः पादोत्तरार्धतालेन द्विकलोत्तरेण वोपपातं लिखेत् । इत्युपपातः । ततो यथाक्षरोत्तरेणान्ताहरणं लिखेत् । ततः पाक्षिकोऽन्तः सप्ताङ्गे युग्मोऽयुग्मश्चेति द्विधा । द्वादशाङ्गे तु मिश्रेण सह पूर्वाभ्यां त्रिधा प्रयोक्तव्यः ।
इत्योवेणकम
(क०) अथ रोविन्दकं लक्षयति--सप्ताङ्गमित्यादि । अवरम् । हीनाङ्गत्वेन निकृष्टम् । अतोऽपि हीनाङ्गं षडङ्गादि न कर्तव्यमित्यर्थः । पोडशाङ्गं परं तथेति । षोडशाङ्गं रोविन्दं परमुत्कृष्टमधिकाङ्गत्वात् । ततोऽधिकाङ्गं सप्तदशाङ्गादि कर्तव्यमित्यर्थः । सप्तादिषोडशान्तमङ्गानि यथाकामं कर्तव्यानि भवन्ति । तस्येति । तस्य ; रोविन्दस्य ; पादः षण्मात्रः, षण्मात्रा यस्येति स तथोक्तः । अत्र मात्राप्रमाणम् - 'पादभागैश्चतुर्भिस्तैर्मात्रा स्यान्मद्रकादिषु' इति पूर्वोक्तं षोडशकलात्मकं द्रष्टव्यम् । अस्येति । अस्य ; पादस्य आये कलाष्टक उपोहनं कर्तव्यम् । तदर्धयोरिति । तस्य पादस्य पूर्वोत्तरयोः अर्धयोः प्रत्येकं मद्रकस्थवस्तुवत् । विविधैकैकसंयोगश्चेति । मद्रके यथा प्रथमयोः मात्रयोः विविधः, तृतीय
Scanned by Gitarth Ganga Research Institute